Book Title: agam 38 Chhed 05 Jitkalpa Sutra
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
३६
श्रीचन्द्रसूरिसंरचिता
[३-31. ४-2
सोऊण त्ति-श्रुत्वा प्रतिसेवनां आलोचनां च श्रुत्वा, क्रमविधिं च श्रुत्वा मूलोत्तरगुणविषयाम् । आगमं ज्ञात्वा, पुरुषजातं च आचार्यादि ज्ञात्वा । तदीयं पर्यायं व्रतवयोविषयम, बलं च शरीरसामर्थ्यम्, क्षेत्रं च कर्कशसाधारणादिरूपं ज्ञात्वा । यस्मादागतस्तत्रैव गतः। अमुमेवार्थ प्रकटयति अवधारेउमित्यादिना।
३-31. सोतउत्ति-स तकः गूढपदालोचनाकथकः। सो० गाहा । स आलोचना-दाता स्वयं गन्तुमसमर्थः खशिष्यं प्रेषयति; तदभावे आगतशिष्यस्यैव कथयतीति तात्पर्यम् ।
३-32. अणुमजिय त्ति-निरूप्य विशोध्येत्यर्थः । तं तिगूढपदालोचितमतिचारम् । तस्य गुरोः । पच्छित्तं ति-तपोदानरूपं ददाति, गूढपदैरेषां कथयति । तान्येव दर्शयति पढमस्स येत्यादिना
३-33. प्रथमस्येति दर्पासेवनारूपस्य। [दसविहमालोयणं ति-] दशविधालोचना दर्प-अकल्पादिदशपदात्मिका, तां विमृश्य, गूढपदौ प्रायश्चित्तं पाठयति । नक्खत्ते पील त्ति-अस्यार्थः-भे भवतां पीडा विराधना; नक्षत्रे कोऽर्थः-चन्द्रादित्यग्रहनक्षत्रतारकभेदतः पञ्चविधज्योतिश्चकमध्ये नक्षत्रभेदश्चतुर्थस्थानी । अतस्तेन चतुर्थव्रतगोचरा पीडा सूच्यते-इत्येके व्याचक्षते । अत्रैव-नक्खत्तमेगे मूलं भणंति, अन्ने हत्थं निद्दिसंति; अवरे मूलुत्तरगुणविराहण त्ति । तत्थ चउत्थ (स्थतं b) इयत्वयविराहणाइयारे हत्थं ति हत्थकम्मं कयं । हत्थेण अदिनं वा गहियं । यद्वा व्रतषशादयः सप्ताविंशतिसंख्या अनगारगुणा मूलोत्तरगुणरूपा नक्षत्रशब्देनात्राभिप्रेताः, नक्षत्राणामप्येतत्संख्याव्यवहारात् । तथा च भनगारगुणानाश्रित्य पठ्यते-'सत्तावीसाए अनगारगुणेहिं ति' । तत्र
वयछक्कमिंदियाणं च निग्गहो भावकरणसचं च । खमया विरागया वि य मणसाईणं निरोहो य॥ कायाण छकजोगम्मि जुत्तया वेयणाहियासणया। तह मारणतियाहियासणा एए अणगारगुणा॥
इह व्रतषवं मूलगुणाः। कायषवं चेति द्वादश शेषाः (१)। तत्र मूलगुणे चतुर्थव्रतविषये पढमे छक्के चउत्थं भवेट्ठाणमिति गाथापाठो द्रष्टव्यः । उत्तरगुणविराधनामाश्रित्य सुके मासे तवं कुणह त्ति भणितं; चउमासं छमासं च तवं कुणह सुक्क इत्यप्यग्रतो भणितम् । परं शुक्लमासादिदानपक्षे उत्तरगुणानाश्रित्य द्रष्टव्यम् । कृष्णमासादि दानपक्षे मूलगुणविराधनामाश्रित्येति । नवरं उग्घाओ सुक्कमासो सद्धसत्तावीस दिवसनिष्पनो । अणुग्घाओ पडिपुन्नो तीसअहोरत्तनिष्पन्नो ॥
४-2. एवं ता उग्घाए[इत्यादि-तत्र उद्घातो भागपातस्तेन निवृत्तं उद्घातिमं लम्वित्यर्थः । एतनिषेधादनुद्घातिमं गुर्वित्यर्थः । तत्र प्रथम पञ्चकं, दशकं, पञ्चदशकं, विंशतिमं, पञ्चविंशतिमं, इत्येतत्सर्व भिन्नमासशब्दवाच्यं ज्ञेयम् । मासलघु, मासगुरु, चउलघु, चउगुरु, छलहु, छगुरु । अन्यच्च द्विमासगुरु, त्रिमासगुरु, चउमासगुरु, पञ्चमासगुरु, छमासगुरु-एते सम्पूर्ण-निजनिजपरिमाणाः कृष्णमासशब्दवाच्याः, अनुद्धाताश्चोच्यन्ते । तत्र लघुगुरुदानेऽयं क्रमः
अद्धेण च्छिन्नसेसं पुव्वद्धेणं तु संजुयं काउं । देजाहि लहुयदाणं, गुरुदाणं तत्तियं चेव ॥ यथा-मासस्यार्द्धच्छिन्नस्य शेषदिन १५ । एतन् मासापेक्षया पूर्वस्य पञ्चविंशतिकस्यार्द्ध सार्धद्वादशकेन संयुतं कृतं मासार्द्ध सार्धसप्तविंशतिर्भवति । इत्येवं दिनसंख्यानिष्पन्नः शुक्लमासः, उत्तरगुणविराधनामाश्रित्य वाच्यः। शुक्लचतुमासः प्राचीनप्रक्रियया कृतः । एतावान् ११० भवति । शुक्लषण्मासिकं तपः १६५ ।
अणुघाए ताणि त्ति-तानि मासिकादीनि षण्मासान्तानि तपांसि अणुग्घाए त्ति सम्पूर्णानि कृष्णशब्दवाच्यादीनि द्रष्टव्यानि । तत्र गुस्मासिकं गुरुद्विमास त्रिमासचातुर्मासिकं पञ्चमासिकं षण्मासिकम् ।
| गु० मा० ३० गु० द्विमा० ६० गु० त्रि००० गु० चा० ००० गु० पं० ०००० गु०५० ००००० ।
|ल. मा० २७॥ ल० ,, ४५ । ल.,, ७५ । ल.,, १०५ ल., १३५ ल., १६५.
अन्यच्चोच्यते किञ्चित्-अट्ठमाइणा तवेण जं बुज्झइ तं तवगुरुयं, निव्वीयाइणा छटुंतेण बुज्झमाणं तवलहुगं, कालओ जं गिम्हे बुज्झइ तं काललहुयं । अन्यच्च
जंतु निरंतरदाणं जस्स व तस्स व तवस्स तं गुरुयं । जं पुण संतरदाणं गरुयं पि हु तं लहं होइ॥ तवकाले आसज्ज व गुरू वि होइ लहू लहू गुरूओ। कालो गिम्हो गुरु अट्ठाइतवो लहू सेसो॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92