Book Title: agam 38 Chhed 05 Jitkalpa Sutra
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 69
________________ ४-3. ४-10 ] जीतकल्पचूर्णि-विषमपदव्याख्या ३७ इह तीर्थ उत्कृष्टतोऽपि षण्मासान्तमेवातिचारशुद्ध्यर्थ तपो भवति । अत उक्तं-मास-चउमास-छमासियाणि । इत ऊर्ध्वं च षण्मासिकेनाप्य शुद्धौ छेदमूलानवस्थाप्यपाराञ्चिकानि तत्तत्कालापेक्षया सूरिभिर्दीयन्ते । अतश्वर्णिकृदाज्ञाव्यवहारे कृते गूढपदैरेव तानि वक्तुकाम इदमाह-छेअं अओ वोछं ति । अओ त्ति-षण्मासीए तपस ऊर्ध्व छेदादिप्रायश्चित्तं गूढपदैराज्ञाव्यवहारत्वाद्वक्ष्ये । अन्यत्राप्युक्तम् 'उस्सग्गेण वि सुज्झइ अइयारो कोइ, कोइ उ तवेण । तेण उ असुज्झमाणे छेयविसेसा विसोहिंति त्ति' ॥ तत्र४-3. छिदं तु तयं भाणं ति० गाहा । अस्यायमर्थः-तयं तु तकत् , भाणं ति पूर्ववतपर्यायरूपं भाजनम्, छिन्दन्तु अपनयन्तु उत्सारयन्तु । पर्यायच्छेदं तु अतिचारानाश्रित्य 'छब्भागंगुलपणए' इत्यादिना वक्ष्यति। पूर्वपर्यायच्छेदेनाशुद्ध्यमाने साधवो व्रतस्य पर्यायस्य मूलं व्रजन्तु । अष्टमप्रायश्चित्तभाजो भवन्तु । तस्याप्ययोग्यतायां 'अव्वावडावगच्छे'-व्रजेयुरव्यावृताः, अव्यापाराः संतिष्ठन्तु, अनवस्थाप्याही भवन्तु । तेनाप्यशुद्धौ तदयोग्यतायां 'अब्बिइया वावि' विहरन्तु । अद्वितीया एकाकिनः सन्तो वक्ष्यमाणपाराश्चिकप्रायश्चित्तासे विनो भवन्तु । प्रागुपात्तं छेदं दर्शयति ४-4. छब्भागंगुलेल्यादिना । छेदो हि पञ्चकदशकादिरूपतया तत्तदतिचारापेक्षया तपोभूमिमपकान्तस्य यावत्पर्यायधरणं तावद्भवति । यदाह 'उकोसं तवभूमि समईओ सावसेस-चरणो य । छेयं पणगाईयं पावइ जा धरइ परियाओ ॥' गाथाद्वयस्यार्थः कथ्यते-छब्भागंगुलपणगेत्ति-सो आलोयणायरिओ, तस्स सीसस्स एयाए सन्नागूढं छेयपायच्छित्तं देह। तं जहा-मास दुमास तिमास चउम्मास पंचमास छम्मासाणं पत्तेयं पत्तेयं अंगुलववएसं करेइ । तहा कए य जस्स मासमेत्तो परियाओ तस्स, पंचगे त्ति पंचसु दिवसेसु छिदियव्वेसु, अंगुल त्ति मासस्स छन्भागो छिदियव्वोत्ति भणियं होइ । दसभाए ति भाग त्ति-तस्सेव य अंगुलसन्नियस्स मासस्स दससु दिणेसु छिंदियब्वेसु अंगुलस्स तिभागो छिंदियव्वो त्ति भणइ। मासपज्जायस्स दसदिवसा छिदियव्व त्ति भणियं होइ। अद्ध-पन्नरसे त्ति-तस्सेवांगुलसनियस्स मासस्स पन्नरसे त्ति पन्नरससु दिवसेसु छिदियव्वेसु अद्धमंगुलस्स छिंदियव्वं ति निद्दिसइ। पन्नरस दिवसाणि छिंदियव्वाणि त्ति सम्भावो। वीसाए तिभागूणं ति-तस्सेव मासस्स वीसाए दिवसाणं छिंदियव्वाए तमेवंगुलं ति-भागूणं ति तइयभागेण ऊणं छिदियव्वं ति भण्णइ । मासस्स दोन्नि भागा अवरा यत्ति भणियं होइ । छब्भागणं तु पणवीसे त्ति-तस्सेव मासस्स पंचवीसाए दिवसाणं छिंदियव्वाए छन्भागूणं ति तमेवांगुलं छब्भागेण ऊणं छिदियव्वं ति भणइ । मासस्स पंचवीस दिवसा छिदियव्वं ति । मासे छिदियव्वे अंगुलं छिंदियव्वं ति भणइ ॥ १॥ विहि मासेहि छिंदियव्वेहि अंगुलदुगं छिंदियव्वं ति भणइ ॥२॥ ति मासे छिंदियव्वे अंगुलतिगं छिंदियव्वं ति भणइ ॥३॥ चउमासे छिंदियध्वे चउरो अंगुलाई छिंदियव्वाई भणइ ॥४॥ पंचहिं मासेहिं छिंदियव्वेहिं अंगुलपंचगं छिंदियव्वं ति सन्दिसइ ॥५॥ छम्मासपरियाए छिन्दियव्वे छअंगुलाई ववइसइ ॥६॥ ४-5. एए छेयविभाग त्ति-एए त्ति पुव्वनिद्दिठा, छेय त्ति छेयं सत्तमपायच्छित्तं तस्स विभागा विसेसा नायव्वा-जाणियव्वा । अहकमेणं तु त्ति जे जहा निद्दिट्ठा । __ आज्ञाव्यवहारे दर्पिकीमासेवामभिधायाधुना कल्पिकीमाह ४-6. बिइअस्स कजस्सेत्यादिना । द्वितीयस्य कल्पासेवनारूपस्य ज्ञानदर्शनादिचतुर्विंशतिपदरूपस्य तद्गोचरामासेवनां श्रुत्वा शिष्येण कथ्यमानां सूरिबूते-आउत्तनमोकार त्ति । आयुक्ताः संयमोद्यमविधायिनः पञ्चपरमेष्ठिस्मरणपरा भवंतु सूरयोऽप्रायश्चित्तिन इति भावः। नवरं-कारणपडिसेवा वि हु सावजा निच्छये अकरणिज्जा, किं सर्वथा नेत्याह-बहुसो वियाइत्ता। कर्तव्य मिति शेषः। अधारणिज्जेसु-अत्यागाढकारणेष्वित्यर्थः । “जइ वि य समगुन्नाया-सावधप्रतिषेवेति प्रक्रमः-तहवि य दोसो न वज्जणे दिट्ठो। दढधम्मयाहु एवं नामिक्खनिसेव-निद्दयया ॥" ४-8. एवं सो इत्यादि । द्रव्यादिकं ज्ञात्वा परिभाव्य वेति शेषः । परिपृच्छ्य खकीयगणं खयमात्मगमनं विधत्ते, शोधिदाता सूरिः गीतार्थशिष्यं वा प्रेषयति । अविजमाणे वत्ति निजगमन-खशिष्याभावे। तस्सेव त्ति आलोचनातिचारकथकप्रेषितशिष्यस्यैव हस्ते गूढपदैरक्षते(रै ? )लिखित्वा वा विशोधिं प्रेषयति । ४-10. धारणाव्यवहारस्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92