Book Title: agam 38 Chhed 05 Jitkalpa Sutra
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
श्रीचन्द्रसूरिसंरचिता
[४-13. ५-20
'गीयत्थेणं दिण्णं सुद्धिं अवधारिऊण तह चेव । दितस्स धारणा सा उट्ठियए य धरणरूवा जा॥' सुगमा ।
४-13. बहसोपडितप्पियरस त्ति-अनेकशः कृतकार्यस्य । अवसेसत्ति-किञ्चिच्छेषाकर्णितागमस्य । अयमर्थः-वैयावृत्त्य करणादिना गच्छोपकारी कश्चित्साधुरद्याप्यशेषच्छेदश्रुतयोग्यो न भवति ततस्तस्यानुग्रहं कृत्वा यदा गुरुरुद्धतान्येव कानिचित् प्रायश्चित्पदानि कथयति तदा तस्य तेषां पदानां धरणं धारणा अभिधीयते।।
४-15. जीतव्यवहारस्तु येवपराधेषु पूर्वमहर्षयो बहुना तपःप्रकारेण शुद्धिं कृतवन्तस्तेष्वपराधेषु साम्प्रतं द्रव्यक्षेत्रकालभावान् विचिन्त्य संहननादीनां च हानिमासाद्य समुचितेन केनचित्तपःप्रकारेण यां गीतार्थाः शुद्धिं निर्दिशन्ति तत्समयपरिभाषया जीत मित्युच्यते । अथवा यद्यत्र गच्छे सूत्रातिरिक्तं कारणतः प्रायश्चित्तं वर्तितमन्यैश्च बहुभिरनुवर्तितं तत्तत्र रूढं जीतमुच्यते । ४-19. वत्तणु० गाहा ।
वत्तो नाम एकसि अणुवत्तो जो पुणो बिइयवारे । तइयवारं पवत्तो सुपरिग्गहिओ महाणेणं ॥
बहुसो बहुस्सुएहिं जो वत्तो न य निवारिओ होइ । वत्तणुवत्तपमाणं जीएण कयं हवइ एयं ॥ तथा च-सो जह काईएणं अपडिकंतस्स निविगइयं तु । मुहणंतफिडियपाणग-असंवरे ए[व]माईसु॥
एगं दिणं च बजे घट्टणतावेण गाढगाढे य । शिविगईमाईयं जा आयामतमोहवणे ॥ विगलिंदणंतघणपरियावणगाढगाढउद्दवणे । पुरिमढाइ कमेण उ नेयव्वं जाव खमणं तु ।। पंचिंदि-घतावण-अणगाढगाढ-तहेव उद्दवणे । एगासणमायाम खमणं तह पंचकल्लाणं ॥ एमाईओ एसो नायव्यो होइ जीयववहारा । अणवज्जविसोही करो संविग्गणगारविन्नो त्ति ॥ ४-25. आगमव्यवहार(रा) न श्रुतमनुवर्तयन्ति । जे पुणोत्यादि--
'आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च । नेपवक्त्रविकारश्च गृह्यतेऽन्तर्गतं मनः ॥ इत्यन्यत्रापि पठ्यते । नवरम्--इजितं निपुणमतिगम्यं प्रवृत्तिनिवृत्तिसूचकमीषद्भूशिरःकम्पादि । आकारः स्थूलधीसंवेद्यः प्रस्थानादिभावसूचको दिगवलोकनादिः ।
४-26. वत्ति त्ति-वक्त्रम् । [णेत्तं] नेत्रं लोचनम् । वयण त्ति-वचनम् । एतदीय विकारादिभिः । तिक्खुत्तो त्ति त्रिकृत्वो वेलात्रयं संवादार्थम् । पलिउंचियं समायं, अपलिउंचियं अमायं ।
४-28. सुयाभावे त्ति-श्रुतवत्सन्निधानाभावे ।। ४-29. सुयववहाराणुसरिसो त्तियतः श्रुतोक्तप्रायश्चित्तमेवात्रापि दीयते । ४-31. विसेसिउत्ति-आज्ञाव्यवहारः श्रुतोपदेशोचितप्रदानम् । ४-32. सव्वत्थय त्ति--त्रिषु कालेषु, जीतस्य चिरानुवर्तनं यावत्तीर्थ तावत् । ५-4. तवेगदेसं ति–द्वादशभेदस्य तपसः प्रायश्चित्तं तदेकदेश एव । ५-5. पारंपरिएण-परम्परया। उव्वेल्लणाए-परमसमसुह०-सम्यक्सुखलक्षणः। ५-9. अनादानं अग्रहणं नूतनकर्मणः ।
५-10. अहव त्ति-यद्वा संवरनिर्जरे एते सप्रभेदे कथ्येते-विशिष्टं लक्षणमेतयोर्भण्यत इति भावः। मिथ्या त्वाविरतिकषाय प्रमादयोगानां निरोधः [संवरः ।
५-11. अवरोधेन अपगमेन ।
५-13. इन्द्रियाणि पञ्च, तेषां विषयाः शब्दरूपरसस्पर्शगन्धाख्यास्तेषु इष्टानिष्टेषु रागद्वेषाकरणम् । विकथाः स्त्रीकथाद्याश्चतस्रः । निद्रा पञ्च विधा । मद्यं विकटम् । प्रमादोऽज्ञानसंशयादिकः । योगा मनःप्रभृतयः ।
५-14. धावनादिकं प्राग व्याख्यातम् । स्फोटनं बाह्वाद्यास्फोटनं घटादिभेदनं वा। ५-15. असम्भूय त्ति-असद्भूतोद्भावनम्-अंगुष्ठपर्वमात्रादिर्जीवः, नवकम्बलो देवदत्त इत्यादिकः । ५-16. ईसालरिस त्ति-परसम्पदामसहनमीा , अमर्षः क्रोधः, एते मनोव्यापाराः । ५-20. [उत्तरगुण]--
पिंडस्स जा विसोही, सनिईओ भावणा तयो दुविहो । पडिमा अभिग्गहा वि य, उत्तरगुणमो वियाणाहि ॥ ५-20. [परीसह
छुहा पिवासा सीउन्हें, दंसाचेलारइथिउ । चरिया निसीहिया सिज्जा, अकोसवहजायणा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92