Book Title: agam 38 Chhed 05 Jitkalpa Sutra
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
२३-2. २४-14]
जीतकल्पचूर्णि-विषमपदव्याख्या
२३-2. अड्डोकंतीय तह चेवत्ति-तत्रार्धस्यासमप्रविभागरूपस्य एकदेशस्य वा एकादिपदात्मकस्य-अपक्रमणमवस्थानम् । शेषस्य बुद्ध्यादिपदसातरूपस्यैकदेशस्योर्ध्व गमनं यस्यां रचनायां सा समयपरिभाषयार्धापकान्तिरुच्यते । यथा सिसिरे जघन्यतः षष्ठम् , मध्यमतोऽष्टमम् , उत्कृष्टतो दशमम् । २।३। ४ । एषां मध्यादेकदेशः षष्ठलक्षणोऽपक्रामति अवतिष्ठते । अष्टम-दशमे ऊर्ध्व वर्षासु गच्छतः । तृतीयं तु अग्रेतनाद्वादशं मील्यते । ततश्च जघन्यतोऽष्टमम् , मध्यमस्तु दशमम् , उत्कृष्टस्तु द्वादशं तपो वर्षासु कुर्वन्ति ।
२३-3. अट्टममाइ गिम्हे इत्यादि-अष्टमं उपवासत्रयमादौ धृत्वा निव्वीयं पर्यन्ते यथा-लघुस पञ्चकसत्के नवमगृहे । सयासय त्ति-खकीयाः सदा ज्ञेया आपत्तयः । असहोरेकैकहासस्तावस्कार्यः यावत् स्थितमेकैकम् । उ० । आ० । ए.। नि।
२३-8. परट्टाणं देज त्ति-आधाकर्माद्यासेवाप्राप्तम् । इह नवविधश्रुतव्यवहारे वर्षा-शिशिर-ग्रीष्मरूपकालतया सप्तविंशतिभेदेषु आपत्तिदानं दर्शितम् । अर्धापक्रान्तिरपि तथा वाच्या।
२३-14. कालं वा सहेज त्ति-प्रतीक्षेत। २३-16. अणहीयनिसीहो अग्गीयत्थो। इतरो गीतार्थः ।
२३-21. धिइ धृतिश्चेतसोऽवष्टंभः। संहननं वज्रर्षभनाराचादि । धीईए संघयणेण य संपन्नो पढमो न घिईए न संघयणेण य अन्त्यः; मध्यवर्ति द्वयम्-धृत्या न संहननेन, नहसो(न धृत्या)संहननेन सम्पन्न इति द्वयमतो वाच्यम्।
२३-25. विकल्पपञ्चकमपि व्याचष्टे आयतरगो इत्यादिना-जो जं तवोकम्मं आढवेइ तन्नित्थरइ स आयतरगः। दृढोऽपि वैयावृत्त्ये तप एव करोति न वैयावृत्यम्-इत्यायतरगः। परतरस्तपस्यपि शक्तः परं न करोति, किन्तु वैयावृत्यमेव विधत्ते । पञ्चमभङ्गव्याख्यामाह-अन्नतरतरग(27)इत्यादिना ।
२३-30. कल्पस्थितादयः सर्वेऽष्टौ ८ । कल्पोऽवस्थितसमाचारः । तत्र स्थितास्तत्परिपालनोद्यताः । २३-33. कयरे ते दशभेदा?-इमे वक्खमाणा-(१)अविद्यमानं चेलं वस्त्रं यस्यासावचेलकस्तद्भाव आचेलक्यम् । सचेलत्वेऽप्यचेलव्यपदेशः। दृश्यते च विवक्षितवस्त्राभावे सचेलत्वेप्यचेलव्यवहारः । यदाह
'जल(ह)जलमवगाहंतो बहुचेलो वि सिरिवेढियकडिल्लो । भन्नइ नरो अचेलो तह मुणओ संतचेलावि ॥ तह थोवजुन्नकुच्छियचेलेहिं वि भन्नए अचेलो त्ति । जह तर सालिय लहुं देयो त्ति नग्गि यामो त्ति ॥'
(२)उद्देसेन साधुसंकल्पेन निवृत्तमौद्देशिकं आधाकर्म । (३-४) सय्यया वसत्या तरति संसारसागरमिति शय्यातरः । स च राजा नृपश्चक्रवादिस्तयोः पिण्डः समुदान मिति शय्यातरराजपिण्डः। (५) कृतिकर्म वन्दनकम् । (६) तथा व्रतानि महाव्रतानि। (७) ज्येष्ठो रत्नाधिकः । (८) प्रतिक्रमणं आवश्यककरणम् । (९) मासः मासकल्पः। (१०) परि-सर्वथा वसनमेकत्र निवासः स निरुतविधिना पर्युषणम् । इति दश विधः कल्पो भेदः। तमि ठिया पकप्पट्ठिया-दश विधकल्पे स्थिता इत्यर्थः । अत्र च प्रथमचरमजिनसाधवो दशस्वपि स्थिता एव । द्वाविंशतिमध्यमजिनसाधवो विदेहजाश्च दशकमध्यात् शय्यातरपिण्ड चातुर्यामपुरुषज्येष्ठवन्दनकरणाख्यचतुर्पु स्थिताः, षदसु चास्थिताः । यथा आचेलक्यौद्देशिकप्रतिक्रमणराजपिण्डमासपर्युषणाकल्पे च वर्षाकालसमाचारा मध्यमजिना २२ विदेहजाश्चास्थिताः, सततसेवनीयतया । दशानां मध्यात् कानिचित् स्थानानि कदाचिदेव पालयन्तीत्यनियतव्यवस्थास्वभावास्ते; अतो मध्यमजिनसाधवो महाविदेहजाश्चाकल्प स्थिताः। यतोऽनवस्थितसमाचारोऽकल्पोऽभिधीयते।
२४-4. जोगवियसरीर त्ति-परिकर्भितदेहाः।
२४-11. बहुतरया भिक्खुणो त्ति-बहवः बहुभेदा इति भावः। अत्र आचार्यकृतकरणादि-पुरुषविभागेन श्रुतव्यवहारतो जीतकल्पयन्त्रं विलेख्यम्। 'एयं मज्झं गहियं ति अनया गाथया यन्त्रकमध्यवर्ति पंचमपंक्तितपोगृहीतपंचमपंक्तावेवास्या गाथाया अर्थो निपततीत्यर्थः ।
२४-14. तिरियायए-तिर्यग्दीर्घाणि त्रयोदशगृहाणि कृत्वा अहो एगं घरयं च-वामपार्श्वे एक पंक्तिमित्यर्थः । अहो पक्केवघरयवुड्डीए वामपार्श्वतः सव्वाईए निरवेक्खं जिनकल्पिकं विनस्येत् । द्वितीयपंक्तरुपरि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92