Book Title: agam 38 Chhed 05 Jitkalpa Sutra
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 83
________________ १९-10. २०-7] जीतकल्पचूर्णि-विषमपदव्याख्या प्रायश्चित्तध्याने वैयावृत्त्यविनयावथोत्सर्गः। खाध्याय इति तपः षट्प्रकारमाभ्यन्तरं भवति ॥ मासाई सत्तं ता पढमा बिइतइयसत्तराइदिणा। अह राइ एगराई, भिक्खू पडिमाण बारसगं ।। इह प्रतिमादिविषयेऽश्रद्धाने विपरीतप्ररूपणायां वा प्रायश्चित्तं ज्ञेयम् । एतेन तपोतिचारप्रायश्चित्तसूचा द्रव्याद्यभिग्रहेषु च वीर्यातिचारप्रायश्चित्तसूचनं ज्ञेयम् । पाक्षिके पुरुषादिविभागतो ज्ञातव्यम् । पुरुषाः क्षुल्लक स्थविर भिक्षु उपाध्याय आचार्यभेदतः पञ्चधास्तान् प्रति चूर्णिकृता दर्शितमेव । १९-10. फिडिए० [गाहा ५२] निद्राप्रमादवशतो गुरुभिः सह प्रतिक्रमणे फिडि ओत्ति न मिलितः। सयं वा उस्सारेइ गुरुणा अपारिते कायोत्सर्गे खयमात्मैव पारयति । अपूर्णे वा चिन्तनीयतयान्तराले पारयति । १९-15. अकए० [गाहा ५३] एवं चंदणाइएसुपि त्ति-एकद्वित्रिसर्वा अदानतो वन्दनेषु यथाक्रम नि. । पु० । ए० । सर्वाकरणे आयामं । राओ वोसिरइ त्ति निसिसंज्ञोत्सर्ग कुरुते । १९-17. कोहे. [गाहा ५४ ] सगि त्ति-सकृत् , एकदा । तन्नगाइ त्ति तर्नको वत्सकः, आदि. शब्दात् मयूरादिग्रहः। १९-22. अज्झुसिर० [गाहा ५५] दुःप्रत्युपेक्षितं चक्षुषा सम्यगनवलोकनम् । अप्रत्युपेक्षितं सर्वथा चक्षुषाऽनिरीक्षितम् । कोयवि-रूतपूरितः पटः पुरओट्ठीति यदुच्यते । पावारगो बृहत्कम्बलः परियच्छिा । पूरी-पल्हवी हस्त्यास्तरणम् । दढगालिधौतपोतिः । दुसर सूत्री पटी, दोयडी यावत् । विराली नवओ जीणोत्ति भन्नइ । गंडोवहाणी गल्लमसूरिका । पुस्तकपंचके गंडी पुस्तकखरूपम् वाहालपुहत्तेहिं गंडीपोत्थो उ तुल्लगो दीहो। १। कच्छवि अंते तणुओ, मज्झे पिहुलो मुणेयव्यो । २ । चउरंगुलदीहो वा, वट्टागी मुट्ठिपुत्थगो अहवा । चउरंगुलदीहो चिय, चउरंसो होइ विडेओ । ३ । तणुपत्तूसियरूवो होइ छिवाडी य पोत्थगा नाम । दीहो बाहुस्सो (ल्लो) वा जो पिहुलो होइ अप्पबाहुल्लो । तं मुणियसमयसारा छिवाडि पोत्थी भणंतीह । ४ । संपुडगो दुगमाई फलगा। ५। अपरमपि-चर्मपञ्चकं यथा-तलिगा खल्लग वठभे (वद्धे) कोसग कत्ती य वीयंतु । तलिगा-उपानत्, वन्भः-वध्रः, कोसगो-लेहोधारं चर्म, कृत्तिः प्रलम्बकरणाय । १९-32. ठवण [गाहा ५६] सन्नी-अविरतः श्राद्धः । वीर्याचारातिचारो निजवीर्यगृहनम् । १९-35. सुयववहाराइसु अन्नह त्ति-मायानिष्पन्नं तदेव दीयते इति विशेषः। आसणद्वयं देयमिति भावः । अन्नमायाओ त्ति-"लूहवित्ती महाभोगो, एस साहू जिइंदिओ। रसचागं करेइ त्ति, अंततेहिं वाढए॥" इत्यात्मनि व्यापयति ।। २०-3. दप्पेण [गाहा ५७ ] वल्गन-उल्ललनम् । खडयप्पयाणं धावणम् । खड्डावरंडाईण फडणम् । मल्लवद्वाहास्फोटनं च दर्पः । तं कुर्वतो कदाचित्पञ्चेन्द्रियस्य [व्य]परोपणं-विघातः कृतः स्यात् । २०-4. अङ्गादानं-मेहनं तस्य परिमर्दनेन शुक्रपुद्गलनिर्घातनं-निष्काशनं इत्येतत्संक्लिष्टकर्मोच्यते । आदिप्रहणाल्लिङ्गस्य स्नेहादि[ना] म्रक्षणादि करोति । दीर्घाध्वनि यत्सेवनम् । आधाकर्म, अध्वानकल्पादिकं वा शुष्ककदलीफलादिधरणतः। दीर्घग्लानेन वा सता यदाधाकर्मरसादिकारणतः। सन्निधिसेवनं वाचरितम् । तत्रैतेषु पञ्चकल्याणकामिति वक्ष्यमाणगाथान्तोकं ज्ञेयं योज्यम् । २०-7. पुरिमत्ता०-भिक्षापात्रं तत्काले न प्रतिलेखयति । चरिमभागोनायां पौरुष्यां प्रथमायां पादौनप्रहरे इत्यर्थः । यद्वा चरिमपौरुष्यामुपोषितः कश्चित् । ततोऽसौ तस्यां पात्रं न पडिलेहेइ। तत्र कल्याणकं प्रायश्चित्तं ज्ञेयम् । चातुर्मासे सांवत्सरिके च शुद्धौ पञ्चकल्याणकं ज्ञेयम् । यस्मात्सूक्ष्मातिचारान् कृतान् न जानाति न च स्मरति । कथमित्साह-जहा पाउसे इत्यादि । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92