Book Title: agam 38 Chhed 05 Jitkalpa Sutra
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 86
________________ ५४ श्रीचन्द्रसूरिसंरचिता [२५-11. २७-5 आचार्यः कृतकरणः । तृतीयपंक्तरुपरि आचार्योऽकृतकरणः । चतुर्थ्या उपाध्यायः कृतकरणः । पञ्चम्या उपाध्यायोऽकृतकरणः [षष्ठ्या गीतार्थस्थिरकृतकरण] भिक्षुः । सप्तम्या गीतार्थस्थिराकृतकरणभिक्षुः। अष्टम्या गीतार्थास्थिरकृतकरणभिक्षुः [नवम्या गीतार्थास्थिराकृतकरणभिक्षुः । दशम्या अगीतार्थस्थिरकृतकरणभिक्षुः। एकादश्या अगीतार्थस्थिराकृतकरणभिक्षुः । द्वादश्या अगीतार्थास्थिरकृतकरणभिक्षुः] त्रयोदश्या अगीतार्थास्थिराकृतकरणभिक्षुः। एवं स्थापितदाहिणट्ठियपणुवीसइ सरूव भिन्नमास निव्वीयसनियाओ, वामपार्श्ववर्ति अट्ठमभत्तं तत्थ छग्गुरुसनियं जीतदाणं नेयं । पंचमपंतीए। २५-11. तहि चेव अवराहे त्ति कोऽर्थः ? तदेवापराधमाश्रित्येत्यर्थः। पुरुषाः-आचार्योपाध्यायवृषभभिक्षुक्षुल्लकभेदतः पञ्च विधास्तानाश्रित्येति भावः। २५-25. खित्तं छिन्नमडंबं ति-अट्ठाइयजोयणभ्यन्तरे जत्थ वसिमं अन्नं नत्थितं छिन्नमडम्बं । सर्वतोऽ. भासनसन्निवेशान्तरं मडंबमित्यन्ये । ओमं परिपूर्ण यत्र भकादि न लभ्यते । दुर्भिक्षं यत्र सर्वथा न लभ्यते। २५-27. तमणंतरं ति निकटवर्ति । २५-36. आलोचनाकाले जयागृहइ त्ति-सर्वथैव न प्रकाशयति। पलिउंच वत्ति-अर्धकथितं करोति। २६-1. बहुगुणेसु त्ति-समर्थेषु । गुरुसेवा-अशुभं प्रति प्रधानसेवा । २६-8. छेदाह प्रोच्यते-तवगविउ० गाहा । [८०] २६-11. अइपरिणामगो-अपवादरुचिः । २६-12. उत्कृष्टां तपोभूमि समईओ त्ति-अधिकतपोदानयोग्यो जातः । सवि ( साव० ) शेषं च यस्य चरणं तस्यातिचारदूषितव्रतपर्यायस्य च्छेदः क्रियते । २६-23. आकुटिरुपेत्यकरणम् , तया पञ्चेन्द्रियवधः कृतः। दर्पण मैथुनसेवनं च । सतीवादमस्या नाशयामीति बुद्धया स्त्रीसेवनायाम् । मृषावादे कूटसाक्षित्वादिदानतः । अदत्ते निधानाद्यपहरति । सचित्ताचित्तगोचरं परिग्गहं च गृह्णाति। २६-27. मूलगुणान् द्वित्रादिभेदेन बहुविधानं बहुशो अनेकशः शोधयति । सर्वशंकादीन् करोति । इति दर्शनवमकः। २६-32. गृहस्थलिंग-कच्छाबन्धनं तल्लकट्टशिरसि विधानादि कौतुकेन कुरुते । अन्यतीर्थकाः-शाक्यतापसायस्तेषां लिङ्गं तद्वेषकरणं नटादिवेषकरणतः । स्त्रीणां गर्भस्याधानं शाटनं च औषधादिकरणतो मूलकरण. तोऽमी (2)। २६-34. विहियतवे त्ति--विहितं दत्तं गुरुणा तपो यस्य सविहिततपास्तदूर्ध्व छेदमूलानवस्थाप्य पाराश्चिकानि प्राप्तस्यापि भिक्षोर्मूलमेवेत्यर्थः। तथा आचार्योपाध्याययोः पाराश्चिकप्राप्तावप्यनवस्थाप्यमेव भवति । यदुक्तं भाष्ये 'इत्थ य जह नवदसमे आवन्नस्सावि भिक्खुणो मूलं । दिजइ तहाभिसेगे पर पयं होइ नवमं तु ॥' २७-5. अनवस्थाप्याख्यं । अनवस्थाप्ये उक्कोसं० गाहा । [८७ ] आसेवितातिचारसन्नविशेषः। सन्न अनाचरिततपोविशेषस्तदोषोपरतोऽपि महाव्रतेषु नावस्थाप्यते नाधिक्रियत इत्यनवस्थाप्यः। तदतिचारजातं तच्छुद्धिरपि वा अनवस्थाप्यमुच्यते । नवमं प्रायश्चित्तम् । तत्र स्तैन्यकरणे किं सत्रेडनवस्थाप्यमुक्तम् ? उक्तमेवेत्यादि । तओत्यादि-गाथापूर्वार्द्धन साधर्मिकस्तैन्ये प्रायश्चित्तमुक्तम् । तत्र सूत्रपदस्यायमर्थः-साधर्मिकाः साधवस्तेषां सत्कस्योत्कृष्टोपधेः शिष्यादेर्वा । बहुशो वा प्रद्विष्टचित्तो वा । तेन्नं ति-स्तेयं-चौर्यं कुर्वन् अनवस्थाप्यः । अन्यधार्मिकाः-शाक्यादयो गृहस्था वा। तेषां सत्कस्योपध्यादेः स्तेयं कुर्वन् । अयमर्थोऽन्यधार्मिकयो. लिङ्गिगृहस्थरूपयोः सत्कं तेयमाहारोपधिशिष्यादिगोचरं त्रिधातत्कुर्वन् । अथोत्तरार्धन-हत्थायालो गहिओस च त्रिधा-अस्थायाणं दलमाणे, हत्थालंबं दलमाणे, हत्थायालं दलमाणे त्ति । क्रमेण व्याख्या अस्थायाणं-अर्थादानं द्रव्योपादानकरणं अष्टाङ्गनिमित्तं तद्ददत्प्रयुजान इत्यर्थः । अत्र कथानकमात्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92