Book Title: agam 38 Chhed 05 Jitkalpa Sutra
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
१५-31. १६-13]
जीतकल्पचूर्णि-विषमपव्याख्या
१५-31. शकृितं संभाविताधाकर्मादिदोषं भक्तादि । चतूरूपो भङ्गाश्चतुर्भङ्गः-ग्रहणे भोजने शङ्कितः । भक्तादेग्रहणकाले भोजनकाले च यदि पुनरमुकदोषवदिदमिति शङ्कावान् ।१। प्रहणे शङ्कितो न भोजने ।२। भोजने शङ्कितो न ग्रहणे ॥३॥ न ग्रहणे न भोजने शङ्कितः।४। इति । एतेषां संभवो यथा-गृहस्थेन प्रचुरा भिक्षां भिक्षाच. रेभ्यः खस्मै वा दीयमानं दृष्ट्वा चिन्तयति किं खगृहोपस्करतया साधुभिक्षाचरादिनिमित्तराद्धतया वा चेतसि शक्कितः। ततो लज्जा-संक्षोभादिना एनमर्थ गृहिणं प्रश्नयितुमशक्नुवन् शतितो गृह्णाति; शक्कितस्तथैव भुते ।। द्वितीयस्तथैव चेतसि शङ्कितः तथैव गृहस्थं प्रश्नयितुमशकुवन् गृहीत्वा खोपाश्रये समागतस्ततो भोजनसमये तं दोलायमानचेतसं दृष्ट्वा अपरसाधुस्तद्भिक्षानिःशङ्कीकृतग्राही तदभिप्रायं ज्ञात्वा वदति यथा-साधोस्तद्गृहे प्रकरणं लाहणं वा समा. यातमिति-तद्वचः श्रुत्वा शुद्धमेतदिति निश्चित्य विगतशङ्कापरिणामस्तद्भुते इति द्वितीयः । गुरोः पुरतः खभिक्षातुल्यभिक्षामालोचयतः साधून श्रुत्वा सञ्जातशङ्कश्चिन्तयति यथा-यत्स्वरूपा बह्वी मया भिक्षा लब्धा अमुकगृहे; अन्यैरपि तत्र तत्स्वरूपैव बही लब्धा । ततो मा कदाचिदियमशुद्धा भविष्यतीति । तथा चासौ शङ्कितचित्तस्तां भुत इति तृतीयः। चतुर्थस्तु संभवं प्रतीत्य सुगम एव । अत्र द्वितीयभङ्गोऽपि प्रहणापेक्षयैव सदोषः। परमार्थतस्तु शङ्कितग्रहणदोषस्य निवर्तितत्वाच्छुद्ध एव । तृतीयो बहुतरमदोषः । उभयत्रापि भोजनशङ्कितत्वेनाशुद्धत्वात् । अतः प्रथमतृतीयावाश्रित्य यत्प्रायश्चित्तं निरूपयति । यं कश्चन दोषमाधाकर्मादिकं शङ्कते, संभावयति अमुकदोषमिति
ति । संम्रक्षितमारूषितम्। निक्षिप्तं न्यस्तम् । पिहितं स्थगितम् । संहृतमन्यत्र क्षिप्तम् । दायग त्ति दायकदोषदुष्टम् । उन्मिश्रं पुष्पादिमिलितम् । अपरिणतं अप्रासुकीभूतादि । लिप्तं दुग्धादिखरंटितम् । छर्दितं परिशाटितम् । एते दश शङ्कितादय एषणादोषाः।
१५-33. अधुना म्रक्षितादीनाह-सच्चित्तेत्यादि । पृथिव्यवनस्पतिभिः सचित्तैर्मक्षितयोगात् । करमानं देयमपि सचित्तम् । अचित्तयोगादचित्तम् । तेन पृथिव्यादिभिः सचित्तैर्मक्षितं पृथ्विकायम्रक्षितमित्यादीनि तत्त्वम् । १५-34. हत्थेणं ति । मत्ते वि एवं चेव । निर्मिश्रकईमं अपरिणतं सचेतनम् । १६-2. ससिणिद्धे-तत्र स्निग्धमीषलक्ष्यमाणखरण्टनजलम् । हस्तादिउदका जलतीमितं तदेव ।
१६-6. गरहियमजायमक्खिए त्ति-मांसवशाशोणितसुरामूत्रोच्चारादिभिः शिष्टजनस्याभक्ष्यापेयैः साक्षान्म्रक्षितं सत् । एतैर्तीक्षिताभ्यां करमात्राभ्यां दीयमानं सत् यतीनामकल्प्यं उड्डाहादि दोषात् । संसक्तिमद्व्यैव्यादिभिर्लेपकृन्मध्वादिभिश्च हस्तमात्राभ्यां म्रक्षिताभ्यां देयं यदेतैर्दीयमानं म्रक्षितं तदकल्प्यमेकेन्द्रियादिवधदोषात् । मात्रादिलममक्षिकाकीटिकापतझादिसत्त्ववधदोषाचेति । गर्हितेऽगर्हिते च म्रक्षिते आयामम् ।।
१६-7. निक्षिप्तश्चतुर्भङ्गः-सचित्तं पृथिव्यादि सचित्ते पृथिव्यादौ निक्षिप्तं न्यस्तम् १. सचित्तं अचित्ते २. अचित्तं सचित्ते ३. अचित्तं अचित्ते ४. निक्षिप्तम् । अत्र प्रथमद्वितीयभङ्गयोर्ग्रहणप्रायोग्यद्रव्याभावान प्रायश्चित्त. चिन्ता। चरमस्तु शुद्ध एव । अतस्तृतीयप्रायश्चित्तं निरूपयति-एत्थेत्यादिना-पृथ्वीकायो मृत्तिकालवणोषतूवरिका वर्णिकादिरूपः। अप्कायो जलावश्यायहिमकरकादि । तेजस्कायो मुर्मुराजारादि । वायुगुंजावातादिरूपो दृतिस्थश्च । प्रत्येकवनस्पतिकायो धान्यव्रीहिकाहरिताम्रादिफलरूपः । अनंतः साधारणः सूरणगर्जरादिकन्दरूपः । त्रसाः कीटिकामस्कोटकन्थ्वादिरूपाः। एते च सर्वेऽपि पृथिव्यादयः सचित्ता मिश्राश्चात्र प्रायाः। ततः पृथिव्यादिषु प्रसान्तेष निक्षिप्तं देयं वस्तु यदचेतनम्। अनन्तरमव्यवधानम् । परम्पर स्थगनिकादिना सव्यवधानम् । सान्तर पृथिव्युपरि स्थगनिकादौ कृत्वा देयं मुक्तम् ।
१६-12. अणन्तवणस्सह त्ति-उपयादिरूपो। वीयनिक्खित्त इति प्रत्येकबीजेषु अणंतकायबीजेषु च अनन्तरपरम्परनिक्खित्ते देये नि०।
१६-13. पिहिए चउभंगोत्ति-यथा-सचित्तं सचित्तेण १. सचित्तं अचित्तेण २. अचित्तं [ सचित्तेण ३. अचित्तं] अचित्तेण ४. पिहियं । अत्राप्यनन्तरपिहितपरम्परपिहितता वाच्या । तथा चतुर्भङ्गे-अत्रापि गुरुलहुपदाभ्यां चतुर्भङ्गः स्यात् , यथा-गुरुकं गुरुकेण, लघुकं लघुकेन, लघुकं गुरुकेण, लघुकं लघुकेन पिहितम् । गुरुकं भारिकं महद्देयभाजनम् । गुरुणा भारिकेण प्रहेडकादिना पिहितम् ; गुरुकं लघुकेनाल्पभारेण छगनकादिना; लघुकं देयभाजनं गुरुकेण प्रहेडकादिना लघुकं लघुकेन छगनकादिना पिहितं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92