Book Title: agam 38 Chhed 05 Jitkalpa Sutra
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
श्रीचन्द्रसूरिसरचिता
[१६-13. १७-9
१६-13. सचित्तेण पुढवीत्यादिना तृतीयभङ्गस्य अचित्तं सचित्तेण पिहितमित्यस्य व्याख्या कृता । मण्डकादिकं सचित्तमृदावष्टब्धमनन्तरपिहितम् । तउआ मृत्तिका गर्भच्छज्जिका । अवष्टब्धं मण्डकादिपरम्परपिहितम् । एवमप्कायादिशेषैरपि भावना कार्या । अस्मद्विरचितपिण्डविशुद्धिवृत्तौ दर्शितत्वाच ।
१६-18. संहृतम्-येन मात्रकेण दात्री दास्यति साधोरशनादिकं-तत्र पृथिव्यादिकं तुषादिकं वा यत्स्यातदन्यत्र सचित्ते अचित्ते वा क्षिप्त्वा तेन रिक्तीकृतेन यदि साधोर्ददाति तत्संहृतमशनायुच्यते । अत्र भङ्गचतुष्टयंसचित्ते सचित्तं-सचित्ते पृथिव्यादौ, सचित्तं पृथिव्यादि संहृतम् १. अचित्तं तुषादि संहृतं २. अचित्ते सचित्तं ३. अचित्ते अचित्तं ४. संहृतं । अत्राप्यनन्तरपरम्परता वाच्या। परित्तवनस्पतिः पत्रशाकादिः । पृथिव्यादिषु त्रसान्तेषु सचित्तस्थानेषु संहरणे साध्वर्थ कृते मात्रकान्तेन गृहीतेऽशनादौ आ० । एकस्मादन्यत्र संहृत्य भूयोऽपि ततोऽपि अयोग्यं संहृत्य तेन ददतः परम्परसंहरणम् ।
१६-22. बीयसाहरिए तिलादिगोचरे । १६-23. दायग(यारो)त्ति-मत्तो मदिरापानोरथमदविकलः । उन्मत्तो महासङ्ग्रामादिजयाद्दामातो प्रहगृहीतश्च ।
१६-27. पमहमाणी पृथिव्यादीन् । सेसेसु त्ति भङ्गेषु । १६-29. ओयत्तन्तीए-द्रव्येण द्रव्यान्तरं गृह्णन्त्याः । १६-30. परं च उहिस्स त्ति-परकीय मिदमित्युक्त्वा ददाति । यद्वा यत्र दात्री परेण निर्भर्त्यते । १६---31. उम्मीसं ति-मिश्रणस्योभयाश्रितत्वात् , उत्प्राबल्येन मिश्रितं दाडिमगुलिकादिना, पुष्पादिना वा सह यन्मिलितं तदुन्मिश्रं भण्यते। ते द्वे अपि वस्तुनी यत्रोन्मिय ददाति साधवे तदशनादिउन्मिश्रम् । तत्र परित्तवनस्पतिपत्रपुष्पशाकादिना सचित्तेन उन्मिने आ० ।
१६-31. अपरिणतं अप्रासूकीभूतादि । तच्च द्रव्यभावभेदात् द्विधा । पुनर्भावापरिणतं दातृगृहीतृयोगात् द्विधावा । तत्र परिणतद्रव्ये सचेतने दायकेन साधोर्दीयमाने द्रव्यापरिणतम् दातृविषयभावापरिणतं तु द्वयोध्रीतो िखामिनोमध्यात् यत्राशने साधारणे एकेन दीयमाने द्वितीयस्य यत्र भावो अपरिणतो अभवनशीलस्तद्दा. तृभावापरिणतम् ।
१७-1. द्रव्यभावपदाभ्यां चतुर्भङ्गोऽत्र अनिसृष्टभावापरिणतयोश्चासमक्षकृतो विशेषः । गृहितृविषयभावापरिणतं तु यत्र द्वयोः साध्वोमिक्षार्थ गतयोरेकस्य मनसि तदशुद्ध परिणतम् , अन्यस्य तदेव शुद्ध मनसि परिणतम् । तदपि भावापरिणतम् ।
१७-2. [संसत्त]-संसक्तेन दध्यादिना करमात्रकखरण्टकेनाशनादिग्रहणे लिप्तदोषाः। १७-3. पृथिव्यादिषु दीयमाने छर्दिते परिशाटितम् । १७-5. संयोजणा-वाहिं भायणे त्ति । रसहेतुकद्रव्यं भिक्षाटने शाल्यादिकूरै क्षीरं वा प्राप्तवान् । तानि बहिरेव पृथक् भाजनेषु गृह्णातीति । वसतेबहिर्दव्यसंयोजनायां चेतसा क्रियमाणायां बाह्या द्रव्यसंयोजना। वसतावागतेन रसहेतोव्यसंयोजना अभ्यन्तरा। संयोजना त्रिधा-पात्रकविषया, कवलविषया, मुखविषया च । यद्येन सह युज्यते तत्तेन सह भक्षयतीति भाव इत्यन्तर्वदनाश्रया। 'बत्तीसकवलमाणं रागदोसाहिं धूमइंगालं । वेयावच्चाइया कारणमवहिमि अइयारो॥' कारणं वेदनावैयावृत्यादिधो(2)ऽनिर्वहति । भोजनाभावे आ० ।
१७-9. सूत्रगाथा ३५-३६. एतयाख्या-कौदेशिकचरिमत्रिके । पाषण्डि श्रमणनिर्ग्रन्थाख्ये पाषण्डिकर्मादिके कम्मे । आधाकम्मं । पाषण्डमिश्रे खसाधुमिश्रे च । बादरप्राभृतिका विवाहस्सकण-ओसकणरूवा । सप्रत्यपायपरप्रामाभ्याहृतम् । यत्रात्मविराधना । लोभपिण्डः। अइरं अणंत त्ति-तिरोऽन्तर्धाने, न तिरमतिरं अन्तर्धानं विना निरन्तरमित्यर्थः । अयं भावार्थः-अणन्तकाये पूय लियाई निक्खित्तं साहरियं मीसियं वा । अणंतकायेण वा पिहियं । आदिग्रहणादनन्तापरिणितेऽनन्तछर्दिते च क्षमणम् । अनन्तकायाव्यवहितनिक्षिप्तपिहितसंहृतोन्मिश्राऽपरिणतछर्दितेषु क्षमणम् । रसहेतुसंयोजना-रागान्वितभोजने च, वर्तमानभविष्यनिमित्ते च क्षमणम् ॥ जावंतिकाख्यकमौद्देशिकायमेदः। मिश्रप्रथमभेदः।धात्रीत्वम् । दूतीत्वम् । अतीतनिमित्तम्।आजीवनापिण्डः ।वनीपकत्वम् । बादरचिकिच्छा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92