Book Title: agam 38 Chhed 05 Jitkalpa Sutra
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
श्रीचन्द्रसूरिसंरचिता
[७--10. ८-14
७-10. का अविसोही-किन्तु विशुद्धिरेव तत्र विद्यते । ७-11. सुहुमपमाय-यथोक्तविधिहासोऽलक्ष्यो यः गुरुसंदिष्टो यथा आलोचयति । ७-12. पुव्वं वत्ति-कार्यकरणकालात् । ७--14. गहणे ति-प्राकृतत्वात् ग्रहणानीति दृश्यम् । ७-16. सेज त्ति-वसतिः । पायपुंछणं-रजोहरणं उपवेशनरूपं च ।
७-17. ओहिय इति–'ओघेण जस्स गहणं भोगो पुण कारणा स ओहोही' । ओघोपधिः सः । 'जस्स य दुगंपि नियमा कारणाओ सो उवग्गहिओ॥
७-18. गहणं तु त्ति-गहणं कथनमित्यर्थः । ७-21. कुलगणे त्ति-कुलं नागेन्द्रादिः, गणः कोटिकादिः।
७-23. बहियाणिग्गमो त्ति-किमपेक्ष्य बहिरित्याह । - गुरुमूलाओ त्ति । किमर्थ यातीत्याहकुलेत्यादि ।
७-24. चेइय दुविहमेयतहव्वेत्यादि-चैत्यं पञ्चधा-साधर्मिकचैत्यं, यथा वा रक्तकसाधादीनां प्रतिकृतिरूपम् १। मङ्गलचैत्यं गृहद्वारदेशादिनिकुहितप्रतिमारूपम् २ । शाश्वतचैत्सं नन्दीश्वरादिव्यवस्थितम् ३ । भक्तिचैत्यं भक्त्या क्रियमाणं जिनायतनम् ; तच्च द्विधा-साधुनिश्रया क्रियमाणं निश्राकृतम् ४ । तदनिश्रया तु विधीयमानमनिश्राकृतम् ५। तस्य सामान्येन जिनायतनाख्यचैत्यस्य द्रव्यं हिरण्यसुवर्णादिरूपम् , तस्य विनाशे जायमाने; तथा तव्यविनाशने तस्य चैत्यस्य द्रव्यं उपकारकं दारूपलेष्टकादिवस्तु तस्य विनाशने सम्पद्यमाने द्विविधभेदे;त्त(१)त नलग्नोत्पाटितभेदतो द्विप्रकारभेदे-मूलोत्तरभेदाद्वा द्विविधभेदे । तत्र मूलं स्तम्भकुम्भकादि, उत्तरं तु छादनादि । खपक्षपरपक्षजनितविनाशाद्वैविध्याद्विविधभेदे । इह चैत्यतद्रव्यविनाशमुपेक्षमाणः साधुरनन्तसांसारिको भवतीत्युक्तम् । द्रम्मादिद्रव्यं काष्ठादिदलं चेत्यादिना द्विविधभेदं यत्तद्रव्यं चैत्यद्रव्यं तस्य विनाशस्य निवारणादीनि कर्तु निर्गतो भवतीति चूर्ण्यक्षरार्थः।
७-25. पाडिहारियं-याचितकम् । अप्पणत्थं-समर्पणाय । ७-28. सन्नायग त्ति-खजनाः । ८-1. पासवण त्ति-मूत्रं भूमौ व्युत्सृष्टं वोसिरइ ति मात्रके ।
८-6. असिवं व्यन्तरादिकृतोपद्रवम्। ओमं ति दुर्भिक्षम् । राजदुष्टः प्रत्यनीकपतिः। ग्लानो मन्दः । उत्तमार्थः पर्यन्तक्रियाराधन विषयः।
८-7. चक्कथूभ त्ति-ऋषभजिनपदस्थाने बाहुबलिविनिर्मितं तक्षशिलानगर्या रत्नमयधर्मचक्रं तद्दर्शनाय व्रजति । स्तूपो मथुरायाम् । प्रतिमा जीवन्तस्वामिसम्बन्धिनी पुरिकायाम् । यत्र सौरिकपुरादौ अर्हतो जन्म, निष्कमणभुवं उजयंतादि द्रष्टम् , ज्ञानं तत्रैवोत्पन्नम् । निर्वाणभूमि-दर्शनार्थ च प्रयाति। [वडग] वजिक-गोकुलम् । सङ्कडिप्रेक्षा विवाहादिप्रेक्षणम् ; आदिशब्दातू शोभनाहारः शोभनोपधिर्यत्र लभ्यते । रम्यदेशदर्शनार्थ च व्रजतीति गृह्यते।
८-13. अप्पा० गाहा । अल्प शब्दोऽभाववाची सर्वपदेषु । तेन मूलगुणविषया विराधना अल्पा न का. चित् । पार्श्वस्थाऽव सन्मादिषु दाने ग्रहणे च न काचित् । सम्प्रयोगः सम्पर्कः । स पाश्वस्थादिभिः सह न आसीत् । ओह ति-इयमोघतः संक्षेपत आलोचना ।
८-14. अन्नमित वेलाए त्ति-अर्धमासाभ्यन्तरेऽपि, अन्यस्मिन् सातिचारे, समुद्देशवेलायां अन्यस्यां वेलायां विभागतो विशेषत आलोचनीयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92