Book Title: agam 38 Chhed 05 Jitkalpa Sutra
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 64
________________ श्रीचन्द्रसूरिसंरचिता [१-26. २-29 ८. तथा, येनानुपममतिनाऽऽवश्यके ज्ञानानां मत्यादीनां विशेषा विशेषिताः कथिता अविशेषतः सामस्त्येन । मानिनां च विशेषाः प्रमाणानां विशेषा विशेषितास्तथा गणधराणां च पृच्छा येन विशेषितास्तं नमत ॥ ९. येन छेदसूत्रस्था प्रायश्चित्तानामापत्तियां सविधिनियूढः । आचार्योपाध्यायादिकं पुरुषविशेषमाश्रित्य स्फुटः प्रकटः। केन कृत्वा दानस्य विरचना तया यत्नस्तेन । क जीतेन दानं तस्य कल्पस्तत्र। अन्ये तु येन छेदश्रुतार्थान् , कथंभूतान्-आपत्तिदानयोर्विरचनं यत्र; तस्मात् जीतदानकल्पविषययोविधिः पुरुषविशेषमाश्रित्य स्फुटो यत्नेन नियूंढ उद्धृतस्तं नमतेति, व्याचक्षते ॥ १०-११. भूयोपि परसमयवेदित्वं विशेषतस्तस्याह-परेत्यादि-सुसमिता ये सुश्रमणास्तेषां यः समाधिमार्गः प्रतिदिनाचरणीयमनुष्ठानं तेन क्षमाप्रधाना ये श्रमणास्तेषां निधानमिवैकम्, अनेनानेकसुशिष्यसंपत्समन्वितत्वं तस्याह । तं नत्वा । मदमथनम् । मानारिहंति मानारिहस्तम्। शेषं सुगमम् । स्कन्धकं छन्दः सर्वरूपकेषुः आर्यागीतिरित्यपरनामकम् । पृ० पं० (पृ० पृष्ठम् ; पं०=पंक्तिः ) १-26. कोवीत्यादि-आचारचूलात्वानिशीथस्याचारपदात् परत उपादानम् । -27. ववहारमाश्यन्ति-आदिग्रहणाद् भगवत्यादिपरिग्रहः । -31. [नाणाइयारेसु]-नानातिचारेषु का आपत्तिः। 'आवत्ती पायच्छित्तगणसम्पत्ति प्रायश्चित्तयो। ग्यता इत्यर्थः। कम्मिवत्ति-कस्यामापत्ती अपरिमूढः सन् । २-2. कप्पियाइएहिन्ति-पिण्डैषणा-वस्त्रैषणादिकल्पा येनार्थतः सूत्रतश्चाभ्यस्ताः स कल्पादिगुणोपेत उच्यते। [अपत्तापत्त]-अपात्रमयोग्यः; अप्राप्तः श्रुतेन वयसा च । येन नाधीतं श्रुतं सोऽप्राप्तश्रुतः। [अवत्त]-अव्यक्तो वयसा षोडशवर्षाणि यावत् , तदूर्व व्यक्तः पञ्चकूर्चश्च यः। [तिन्तिणिय]-- तिन्तिणिको झिगिझिगिणस (ख) भावः। [चलचित्त]-सम्यक्त्वादिषु योऽस्थिरः स चलचित्तः। तथा बायोग्य उक्तो यथा तिन्तिणिए चलचित्ते गाणंगणिए य दुब्बलचरित्ते । आयरिय पारिभासी वामावडे य पिसुणे य॥ ,-6. [कयपवयण]-प्रोच्यन्ते तेनेति प्रवचनम् । वक्तीति प्रवदतीति वा प्रवचनम् । प्रतिष्ठावचनं वा प्रवचनम् । प्रवचने योगानन्यत्वात् सङ्घस्य सर्वपक्षेष्वपि सङ्घ एव प्रवचनशब्दवाच्यः। यतः-प्रवचनं श्रुतमुच्यते। तच भावश्रुतमुपयोगरूपम् । श्रुतोपयोगश्च न निराश्रय इति प्रवचनाश्रयत्वास्सद्धःप्रवचनमभिधीयते। अत एवाह जेण तं सुयमित्यादि तद्-सङ्घोपयोगात् । ,-14. वत्तणुवत्तेत्यादि-वृत्तः पात्रबन्धप्रन्थिदानादिकः । एकदा नवो जातः। ततोऽनुवृत्तः एकपुरुषं यावत् । ततः प्रवृत्तः पुरुषप्रवाहेण । अत एव बहुश आसेवितो महाजनेन । भाष्यकृता उक्तम् वत्तो नाम एक्कस्सि अणुवत्तो जो पुणो बिइयवारे । तईयवारपवत्तो, परिग्गहीओ महाणेणंति ॥१॥ -18. सोहणन्ति-शोधकम् । मरुयाई-धिग्जातयः। कत्थइ त्ति-द्विजातिवधे। ,,-21. [पलास-खारोदगाइ]-पलासक्षारं च उदकं च । आदिग्रहणादरिष्टकादिप्रहः, तद् यथा वस्त्रमलं शोधयति । -25. विसेसणं च सइसंभवे-यथा विद्यावान् धनवान् गोमानयं वर इत्यादिषु प्रशस्तातिप्रचुराऽ. नन्यसाधारण विद्याधनगवादिवस्तुसद्भावेन यथाविशेष्यं विशिष्यते विद्यादिभिस्तदा तत्तत्र सम्भवि विशेषणं ज्ञेयम् । व्यभिचारे नीलोत्पलमित्यत्र नीलविशेषणं रक्तोत्पलादेरपि सम्भवाद द्रव्यव्यवच्छेदाय नीलपदम् । एवमिहापि शेषागमादिव्यवहारसम्भवात्तदवच्छेदाय जीतपदम् । ,-29. [केवल-मण-ओहिणाणीति]-केवल-मण-ओहिणाणीसत्र अवधिर्दिधा-भवप्रत्ययः क्षायोपशमिकश्च । तत्राद्यो देवनारकाणाम् । तत्रायं विशेषःउप्पज्जमत्तण उ खलु भवपचईओ हि जत्तिओ विसओ। सव्वं तं भोभासई न य धुवी नव य हाणी [हि] ॥१॥ गुणपच्चइओ ओही गब्भजति रिमणुयसंपमोत्तणं । कम्माण खओवसमे सदवरणिज्जाण उप्पजे ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92