Book Title: Vivek Manjari Part 02
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 309
________________ ६३२] [विवेकमञ्जरी उपभुज्य। कस्मै ? 'कुसलकए' कुशलकृते जन्म-जरा-मरणहरणकारणायेति भावः ॥१३६॥ अथोपायान्तरेण स्वजीवं प्रति तत्त्वतात्पर्यमाह - विसएसु परिभमंतं अइदुस्सहकम्मधम्मपरिसंतं । वीसामस मणपहियं जिणधम्मतरुम्मि तं जीव ! ॥१३७॥ [विषयेषु परिभ्रमन्तमतिदुस्सहकर्मधर्मपरिश्रान्तम् । विश्रामय मनःपथिकं जिनधर्मतरौ त्वं जीव ! I] व्याख्या । हे जीव ! त्वं मनःपथिकं चित्ताध्वगं 'विसएसु परिभमंतं' विषयेष्विन्द्रियार्थेषु देशेषु वेति संश्लिष्टं पदम्, परिभ्रमन्तम् । 'अइदुस्सह त्ति' 10 अतिदुस्सहानि तीव्राणि कर्माण्येव धर्म आतपः स तथा तेन परिश्रान्तं खिन्नम् । 'वीसामसु' विश्रामयस्व । क्व? 'जिणधम्मतरुम्मि' जिनस्याहतो धर्मः शासनं स एव तरुर्वृक्षस्तस्मिन्निति ॥१३७।। अथान्यतमोपायेन जीवस्य मन:शुद्धिमुपदिशन्नाह- .. नीरागमणगुरुसरोवराउ गहिऊण देसणासलिलं । 15 तं कुणसु चित्तनिवसणमवणियनीसेसदोसमलं ॥१३८॥ [नीरागमनो(मन)गुरुसरोवराद् गृहीत्वा देशनासलिलम् । त्वं कुरु चित्तनिवसनमपनीतनिःशेषदोषमलम् ॥] व्याख्या । हे जीव ! त्वं चित्तनिवसनं मनोवस्त्रं 'अवणिय त्ति' नि:शेषाश्च ते दोषा रागद्वेषादयश्च मलः पूर्वबद्धं कर्म निःशेषदोषमलाः, तेऽपनीता यस्मात् तद् 20 अपनीतनिःशेषदोषमलं कुरुष्व । किं कृत्वा ? 'गहिऊण' गृहीत्वा । किम् 'देसणसलिलं' देशनाजलम् । कस्मात् ? 'नीरागमणगुरुसरोवराउ' नीरागमनाश्चासौ गुरुश्च नीरागमनोगुरुः स एव सरोवरं तस्मात्, अथवा, नीरस्य जलस्यागमनं यत्र तद् नीरागमनं तच्च तत् सरोवरं च तस्मादिति श्लिष्टपदम् ॥१३८॥

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370