________________
६३२]
[विवेकमञ्जरी उपभुज्य। कस्मै ? 'कुसलकए' कुशलकृते जन्म-जरा-मरणहरणकारणायेति भावः ॥१३६॥
अथोपायान्तरेण स्वजीवं प्रति तत्त्वतात्पर्यमाह - विसएसु परिभमंतं अइदुस्सहकम्मधम्मपरिसंतं । वीसामस मणपहियं जिणधम्मतरुम्मि तं जीव ! ॥१३७॥
[विषयेषु परिभ्रमन्तमतिदुस्सहकर्मधर्मपरिश्रान्तम् ।
विश्रामय मनःपथिकं जिनधर्मतरौ त्वं जीव ! I] व्याख्या । हे जीव ! त्वं मनःपथिकं चित्ताध्वगं 'विसएसु परिभमंतं' विषयेष्विन्द्रियार्थेषु देशेषु वेति संश्लिष्टं पदम्, परिभ्रमन्तम् । 'अइदुस्सह त्ति' 10 अतिदुस्सहानि तीव्राणि कर्माण्येव धर्म आतपः स तथा तेन परिश्रान्तं खिन्नम् । 'वीसामसु' विश्रामयस्व । क्व? 'जिणधम्मतरुम्मि' जिनस्याहतो धर्मः शासनं स एव तरुर्वृक्षस्तस्मिन्निति ॥१३७।। अथान्यतमोपायेन जीवस्य मन:शुद्धिमुपदिशन्नाह- ..
नीरागमणगुरुसरोवराउ गहिऊण देसणासलिलं । 15 तं कुणसु चित्तनिवसणमवणियनीसेसदोसमलं ॥१३८॥
[नीरागमनो(मन)गुरुसरोवराद् गृहीत्वा देशनासलिलम् ।
त्वं कुरु चित्तनिवसनमपनीतनिःशेषदोषमलम् ॥] व्याख्या । हे जीव ! त्वं चित्तनिवसनं मनोवस्त्रं 'अवणिय त्ति' नि:शेषाश्च ते दोषा रागद्वेषादयश्च मलः पूर्वबद्धं कर्म निःशेषदोषमलाः, तेऽपनीता यस्मात् तद् 20 अपनीतनिःशेषदोषमलं कुरुष्व । किं कृत्वा ? 'गहिऊण' गृहीत्वा । किम् 'देसणसलिलं' देशनाजलम् । कस्मात् ? 'नीरागमणगुरुसरोवराउ' नीरागमनाश्चासौ गुरुश्च नीरागमनोगुरुः स एव सरोवरं तस्मात्, अथवा, नीरस्य जलस्यागमनं यत्र तद् नीरागमनं तच्च तत् सरोवरं च तस्मादिति श्लिष्टपदम् ॥१३८॥