________________
भावनाद्वारम् ]
दीद्धरणम्मि धणं न पउत्तं सज्जिओ न सीलगुणो । न कयं जिणउवएसाणुस्सरणं तस्स किं सरणं ? ॥१३५॥ [दीनोद्धरणे धनं न प्रयुक्तं सज्जितो न शीलगुणः । न कृतं जिनोपदेशानुसरणं तस्य किं शरणम् ? ॥] सुगमा ॥१३५॥
अथानादिभवाभ्यस्तमिथ्यात्वं स्वजीवं हितोपदेशेन प्रीणयन्नाह - आमयकारि विसायं मिच्छत्तं कयसणं व जं भुत्तं । तं वमसु विवेगोसहमुवभुंजिय जीव ! कुसलकए ॥१३६॥
[आमत (य) कारि विसातं (विस्वादं) मिथ्यात्वं कदशनमिव यद्भुक्तम् । तद् वम विवेकौषधमुपभुज्य जीव ! कुशलकृते ॥]
[ ६३१
“विग्गहविवायरुइणो कुलगणसंघेण बाहिरकायस्स ।
नत्थि किर देवलोगे वि देवसमिईसु ओगासो” ॥ [ उव.मा. / ७० ]
5
व्याख्या । हे जीव ! सुदेव - सुगुरुसेवामये सद्धर्ममोदके सत्यपि त्वया यद् मिथ्यात्वमज्ञानत्वं भुक्तम् । किंविशिष्टम् ? 'आमयकारि' आ सामस्त्येन मतानि निजकुमतिकल्पितान्याचरणानि जमालि-गोष्ठामाहिल त्रैराशिक - द्विक्रियक्रियारूपाणि करोतीत्येवंशीलम् आमतकारि । पुनः किंरूपम् ? 'विसायं' इह विग्रहविवादरुचितया कुल-गण-सङ्घबहिष्कृतत्वात्, कष्टानुष्ठानानुभावाद् दिवि किल्बि - 15 षिकत्वमात्रमापन्नस्य सुरसभातिरस्कृतत्वात् परत्र च विगतं सातं सुखं यस्य तद् विसातम् यदाहुः—
१. विग्रहविवादरुचेः कुलगणसंघेन बहिष्कृतस्य ।
नास्ति किल देवलोकेऽपि देवसमितिष्ववकाशः ॥
10
किमिव ‘कयसणं व' कदशनमिव । तच्च किंरूपम् । आमयकारि रोगकारि, 20 'विसायं' विस्वादम् । 'तं' वमसु तद् वम । किं कृत्वा ? 'विवेगोसहमुवभुंजिय' विवेको राग-द्वेष-मोहादिदोषेभ्यः पृथग्भावरूपः स एव औषधं विवेकौषधम्