________________
६३० ]
[ विवेकमञ्जरी
व्याख्या । पात्रं ज्ञानदर्शनचारित्रात्मकं तस्मिन् 'घरम्मि पत्ते' "द्वितीयातृतीययोः सप्तमी" [ है० प्रा० ३ | १३५] इति प्राकृतलक्षणत्वाद् गृहं प्राप्ते 'सव्वविसुद्धं' सर्वै: सचित्तक्षेपण - सचित्तपिधान-काललङ्घन - मत्सरा - ऽन्यापदेशादिभिः पञ्चभिरप्यतिथिसंविभागव्रतातीचारैर्विशुद्धं विप्रमुक्तं सर्वविशुद्धं 'विसुद्धसद्धाए' 5 विशुद्धातिनिर्मला चासौ श्रद्धा
" कृतकृत्योऽस्मि धन्योऽस्मि पुण्यवानस्म्यहं यतः । चित्तं वित्तं च पात्रं च त्रिवेणीसङ्गमोऽद्य मे" ॥ [ ]
इत्यादिरूपा वासना विशुद्धश्रद्धा तयोपलक्षितेन जीवेन प्रासुकाशनपानखादिमस्वादिमवस्त्रपात्ररजोहरणकम्बलपीठफलकशय्यासंस्तारकादिरूपं दानं न 10 दत्तं, "कह होही तस्स कल्लाणं कथं भविष्यति तस्य कल्याणं मुक्ति: ? ननु “दाणेणं हुंति उत्तमा भोगा" [ ] कथं मुक्तिरिति ब्रूषे ? तन्न, यदाह भगवान्–
"समणोवासए णं भंते ! तहारूवं समणं वा माहणं वा फासुएणं एसणिज्जेणं असण- पाण- खाइम- साइमेणं वत्थ-पडिग्गह- कम्बल - - पायपुंछणेणं पीढफलगसिज्जा- संथारएणं पडिलाभेमाणे किं लहइ ?" "गोयमा ! समणोवासए णं तहावं 15 समणं वा माहणं वा जावपडिलाभेमाणे तहात्वस्स समणस्स वा माहणस्स वा समाहिमुप्पाएइ, समाहिकारणेणं तहमेव समाहिं पडिलंभइ" । "समणोवासए णं भते ! तहारूवं समणं वा माहणं वा जाव पडिलाभेमाणे किं चयह ?" । "गोयमा ! जीवियं चयइ, दुच्चरियं चयइ, दुच्चरियं चइत्ता दुक्करं करइ, दुल्लहं लहइ, बोहिं लहइ, तओ पच्छा सिज्झइ, बुज्झइ, मुच्चइ, जाव अंत करे " ॥ [ ] इति ॥१३४॥
१. दानेन भवन्त्युत्तमा भोगाः ।
२
“श्रमणोपासको भगवन् ! तथारूपं श्रमणं वा पासुकेनैषणीयेनाशनपानखादिमस्वादिम्नावस्त्रप्रतिग्रहकम्बनपादप्रोच्छनेन पीठफलकशय्यासंस्तारकेण प्रतिलम्भयन् किं लभते ?" । " गौतम ! श्रमणोपासकस्तथारूपं श्रमणं वा ब्राह्मणं वा यावत्प्रतिलभ्भयंस्तथारूपस्य श्रमणस्य वा ब्राह्मणस्य वा समाधि-मुत्पादयति, समाधिकारणेन तथैव समाधिं प्रतिलभते" । " श्रमणोपासको भगवन् ! तथारूपं श्रमणं वा ब्राह्मणं वा यावत्प्रतिलभ्भयन् किं त्यजति ?" । "गौतम ! जीवितं त्यजति, दुश्चरितं त्यकत्वा दुष्करं करोति, दुर्लभं लभते, बोधिं लभते, ततः पश्चात् सिध्यति, बुध्यते, यावदन्तं करोति ॥