________________
भावनाद्वारम् ]
अथ सर्वधर्मोपदेशमज्जया स्वजीवं शिक्षयन्नाह
रक्खेज्जसु जीव ! तुमं हियए निहिऊण जच्चरयणं व । भवजलहिजाणवत्तं पत्तं पुन्नेण सम्मत्तं ॥ १३९॥
[रक्षेर्जीव त्वं हृदये निधाय जात्यरत्नमिव । भवजलधियानपात्रं प्राप्तं पुण्येन सम्यक्त्वम् ॥]
व्याख्या । हे जीव ! 'तुमं' त्वं 'सम्मत्तं' सम्यक्त्वं " अरिहं देवो गुरुणो सुसाहुणो जिणमयं तत्तं" [ ] इतिरूपं दर्शनम्, 'हियए निहिऊण' हृदये निधाय दृढं धृत्वा 'जच्चरयणं व' जात्यरत्नमिव 'रक्खिज्जसु' रक्षेः । किंविशिष्टम् ? 'पत्तं पुन्नेण' प्राप्तं पुण्येन पूर्वसुकृतकृतकर्मलाघवेनेत्यर्थः । पुनः किंविशिष्टम् ? 'भवजलहिजाणवत्तं' भवः संसार एव जलधिस्तत्र यानपात्रं प्रवहणम्, तदम - 10 ज्जनविधावेकहेतुत्वादस्येति ॥ १३९ ॥
अथ यद्यपि संसारपारावारतरणतरकाण्डमेकं सम्यक्त्वम्, तथापि चारित्रादिक्रियाकौशलमन्तरेण न परं पारमधिगन्तुं पार्यते, अतस्तदुपदेशमाह
जइ इच्छसि लंघेउं संसारं दुत्तरं पि ता कुसु । तव-नियमसमायारं मायारंभं पमुत्तूण ॥१४०॥
[ यदीच्छसि लङ्घितुं संसारं दुस्तरमपि तदा कुरु । तपोनियमसमाचारं मायारम्भं प्रमुच्य ॥]
[ ६३३
स्पष्टा ॥१४०॥
इति सोपालम्भं सकरुणं स्वजीवमभिधायोपदेशवर्गसंवर्गणमाह इय सुणिऊण पसत्थं जीव ! तुम जाणिऊण परमत्थं । सुहकज्जेसु पमायं असुहसहायं इमं मुयसु ॥ १४१ ॥
[इति श्रुत्वा प्रशस्तं जीव ! त्वं ज्ञात्वा परमार्थम् । शुभकार्येषु प्रमादमशुभसहायमिमं मुञ्च ॥]
१. अर्हन् देवो गुरवः सुसाधवो जिनमतं तत्त्वम् ।
5
15
20