________________
६३४]
10
[विवेकमञ्जरी व्याख्या । इति पूर्वोक्तं चतुःशरणप्रतिपत्ति-सम्यग्गुणानुमोदन-दुष्कृतगर्हाभावनादिचतुष्प्रकारमुपदेशं प्रशस्तं सर्वोत्तमं श्रुत्वा परमार्थं "तमेव सच्चं निस्संकं जं जिणेहिं पवेइयं" [ ] इति तत्त्वं ज्ञात्वा शुभकार्येषु प्रमादमालस्यम् अशुभ
सहायम् अधर्मप्रकृतिपुरुषमिमं मुञ्चस्व परिहरेति ॥१४१।। 5 अर्थतत्प्रकरणप्रसादोपरि कलशमिवोपदेशरहस्यमाह
तं जीव ! सुणसु सव्वं फुरंतरोमंचकंचुओ निच्चं । जिणपवयणस्स सारं भाविज्ज मणे नमोक्कारं ॥१४२॥
[त्वं जीव ! शृणु सर्वं स्फुरद्रोमाञ्चकञ्चुको नित्यम् ।
जिनप्रवचनस्य सारं भावयेर्मनसि नमस्कारम् ॥] अस्यां व्याख्यानं कर्पूरकलिकायां वासदानमिव निरर्थकमिति ॥१४२॥ अथ ग्रन्थसमाप्तौ मङ्गलगाथामाहरड्यं पगरणमेयं जिणपवयणसारसंगहेण मया । सम्मं सम्मत्तवियासडंबरं दिसउ भवियाणं ॥१४३॥
[रचितं प्रकरणमेतज्जिनप्रवचनसारसंग्रहेण मया । 15 सम्यक् सम्यक्त्वविकासडम्बरं दिशतु भव्यानाम् ।।]
व्याख्या । एतत् प्रकरणं मया रचितम् । केन कृत्वा ? 'जिणपवयणसारसंगहेण' जिनानां प्रवचनं सिद्धान्तस्तत्र सारभूतानां चतुःशरणप्रतिपत्तिप्रभृतीनां चतुर्णामुपदेशानां संग्रह एकत्र मीलनं जिनप्रवचनसारसंग्रहस्तेन, अन्यदपि प्रकर
णमुत्सवो विवाहादिः सारसंग्रहेण द्रव्योच्चयेन क्रियत इत्युक्तिलेशः । किं करोतु ? 20 'दिसउ' दिशतु 'सम्म' सम्यक् । किं तत् ? 'सम्मत्तवियासडंबरं' सम्यक्त्वस्य
सुदेव-सुगुरु-सुधर्मप्रतिपत्तिरूपस्य विकासडम्बरो विज्ञानविस्तरस्तम् । केभ्यः ? 'भवियाणं' भविकेभ्य इति कवेरुक्तिः । वयं तु ब्रूमः-एतत् प्रकरणं भविकेभ्य 'आसडं' आसडनामानं सुकविं वरं प्रधानं दिशतु कथयतु, यतः कवयः काव्य
१. तदेव सत्यं निःशङ्कं यज्जिनैः प्रवेदितम् ।