SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ भावनाद्वारम्] [६३५ कीर्तनैरेव परां प्रसिद्धिमायान्तीति । किंविशिष्टमिदं प्रकरणम् ? 'सम्मत्त वि' "वी प्रजन-कान्त्य-ऽसन-खादनेषु" इत्यनेन सम्यक्त्वं वेति समुद्दीपयति अवगमयति वा सम्यक्त्ववि क्विपा सिद्धमिति ॥१४३।। अथ प्रशस्तिगाथामाहसिरिभिल्लमालनिम्मलकुलसंभवकडुयरायतणएण । इय आसडेण रड्यं वसुजलहिदिणेसवरिसम्मि ॥१४४॥ [श्रीभिल्लमालनिर्मलकुलसंभवकटुकराजतनयेन । इत्यासडेन रचितं वसुजलधिदिनेशवर्षे ॥] व्याख्या । एतद् विवेकमञ्जरीनामधेयं प्रकरणम् आसडेन रचितं रचनामानीतम् । किंविशिष्टेन ? 'सिरिभिल्लमाल त्ति' निर्मलं निर्दूषणां च तत्त्कुलं निर्मल- 10 कुलं, श्रियोपलक्षितं च भिल्लमालाख्यं निर्मलकुलं च तत्तथा, तस्मात् संभवतीति श्रीभिल्लमालनिर्मलकुलसम्भवः, स चासौ कटुकराजस्तस्य तनयः पुत्रो यः स तथा तेन । कदेत्याह-'वसुजलहि त्ति' वसवोऽष्टौ, जलधयश्चत्वारो, दिनेशा द्वादश तैर्निर्मितं वर्ष वसुजलधिदिनेशवर्षं तत्रेति संक्षेपार्थः । व्यासार्थस्तूच्यते श्रीभिल्लमालाभिधया प्रसिद्धो वंशोऽवतंसो जगतीतलस्य । समस्ति पाथोधिरिवाच्युतश्रीसरस्वतीवासनिवास एकः ॥१॥ तस्मिन् नवो रजनिजानिरिवाजनिष्ट भासा पटुः कटुकराज इति प्रतीतः । यो जैनदर्शनलयो भवमूनि चक्र लीलास्पदं पदमखण्डिततवृत्त एव ॥२॥ .. 20 सुधांशो रोहिणीवास्य बुधपुत्रप्रसुः प्रियाः । बभूवानलदेवीति सतीजनमतील्लका ॥३॥ तयोरजनिषातां द्वौ सुतावासडजासडौ । सत्पथं न व्यलकेतां धुयॊ धर्मरथस्य यौ ॥४॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy