SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ६३६] [विवेकमञ्जरी आसडः कालिदासस्य यशोदीपमदीपयत् । मेघदूतमहाकाव्यटीकास्नेहनिषेचनात् ॥५॥ श्रुत्वा नवरसोद्गारकिरोऽस्य कवितागिरः । --- राजसभ्याः कविसभाशृङ्गार इति यं जगुः ।।६।। जिनस्तोत्रस्तुती: पद्यगद्यबन्धैरनेकशः । चक्रे यः क्रूरकर्माहिजाङ्गलीमन्त्रसंनिभाः ॥७॥ येनोपदेशकन्दल्याह्वानप्रकरणच्छलात् । कृतं मोक्षाध्वनीनेभ्यः पाथेयातिथ्यमक्षयम् ॥८॥ आसडस्य मृडस्येव गौरीगङ्गे बभूवतुः । पृथिवीदेवी-जैतल्लदेव्यौ द्वे तस्य वल्लभे ॥९॥ जैतल्लदेव्यां तनयावभूतां द्वावेतयो राजडनामधेयः । ज्येष्ठः कनिष्ठः कलिकालकुम्भिद्विड्जैत्रसिंहः किल जैत्रसिंहः ॥१०॥ अरिसिंह इति च पृथिवीदेव्यां करपुष्करस्रवद्दानः । गुरुगिरिपरिणतकर्मा गज इव कलभोऽङ्गजः समभूत ॥११॥ पुत्रे राजडनाम्नि बालकदलीकाण्डोपमे स्व:पुरी, याते बालसरस्वतीति विदिते तच्छोकमूढाशयः । संबुद्धोऽभयदेवसूरिसुगुरोथैरेव वाक्यैरसौ, तैरेवेदमसूत्रयत् प्रकरणं श्रीआसडः सत्कविः ॥१२॥ एतामासडिजैत्रसिंहसचिवेनात्यर्थमभ्यर्थितो, वृत्तिं श्रीहरिभद्रसूरिसुगुरोः शिष्यः प्रशिष्यावधिः । वाग्देवीप्रतिपन्नसूनुरकृत श्रीबालचन्द्राख्यया, विख्याताऽधिपतिर्गणस्य गणिनीरत्नश्रियो धर्मजः ॥१३॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy