Book Title: Vivek Manjari Part 02
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 312
________________ भावनाद्वारम्] [६३५ कीर्तनैरेव परां प्रसिद्धिमायान्तीति । किंविशिष्टमिदं प्रकरणम् ? 'सम्मत्त वि' "वी प्रजन-कान्त्य-ऽसन-खादनेषु" इत्यनेन सम्यक्त्वं वेति समुद्दीपयति अवगमयति वा सम्यक्त्ववि क्विपा सिद्धमिति ॥१४३।। अथ प्रशस्तिगाथामाहसिरिभिल्लमालनिम्मलकुलसंभवकडुयरायतणएण । इय आसडेण रड्यं वसुजलहिदिणेसवरिसम्मि ॥१४४॥ [श्रीभिल्लमालनिर्मलकुलसंभवकटुकराजतनयेन । इत्यासडेन रचितं वसुजलधिदिनेशवर्षे ॥] व्याख्या । एतद् विवेकमञ्जरीनामधेयं प्रकरणम् आसडेन रचितं रचनामानीतम् । किंविशिष्टेन ? 'सिरिभिल्लमाल त्ति' निर्मलं निर्दूषणां च तत्त्कुलं निर्मल- 10 कुलं, श्रियोपलक्षितं च भिल्लमालाख्यं निर्मलकुलं च तत्तथा, तस्मात् संभवतीति श्रीभिल्लमालनिर्मलकुलसम्भवः, स चासौ कटुकराजस्तस्य तनयः पुत्रो यः स तथा तेन । कदेत्याह-'वसुजलहि त्ति' वसवोऽष्टौ, जलधयश्चत्वारो, दिनेशा द्वादश तैर्निर्मितं वर्ष वसुजलधिदिनेशवर्षं तत्रेति संक्षेपार्थः । व्यासार्थस्तूच्यते श्रीभिल्लमालाभिधया प्रसिद्धो वंशोऽवतंसो जगतीतलस्य । समस्ति पाथोधिरिवाच्युतश्रीसरस्वतीवासनिवास एकः ॥१॥ तस्मिन् नवो रजनिजानिरिवाजनिष्ट भासा पटुः कटुकराज इति प्रतीतः । यो जैनदर्शनलयो भवमूनि चक्र लीलास्पदं पदमखण्डिततवृत्त एव ॥२॥ .. 20 सुधांशो रोहिणीवास्य बुधपुत्रप्रसुः प्रियाः । बभूवानलदेवीति सतीजनमतील्लका ॥३॥ तयोरजनिषातां द्वौ सुतावासडजासडौ । सत्पथं न व्यलकेतां धुयॊ धर्मरथस्य यौ ॥४॥

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370