Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
पनरत्रम् ॥२२६॥
व्याख्या-'न' नैव तव भोगानुपलक्षणत्वादनार्यकर्माणि च त्यक्तुं बुद्धिा, 'गृद्धः प्रसक्ती 'असि" वर्चसे 'आरम्मपरिग्रहेषु' सावधव्यापारेषु सचिवाचिचादिवस्तुस्वीकारेषु च 'मोघं निष्फलं यथा भवति तथा कृत एतावान् ‘विप्रलापो' विविधष्यर्थवचनविन्यासलक्षणः सम्प्रति तु गच्छामि राजन् ! 'आमन्त्रितोसि' धातूनामनेकार्थत्वात् पृष्टोसि गन्तुमिति शेषः । तव हि जीवितानित्यतादर्शनादिभिर्बहुभिः प्रकारैरनुशिष्यमाणस्यापि न मनागपि वैराग्यमभूदित्यविनेयत्वादुपेक्षेव वरीयसीति भाव इति सूत्रार्थः ॥३३॥ | इत्थमुक्त्वा गते मुनौ ब्रह्मदत्तस्य यदभूतदाह
मूलम्-पंचालराया वि अ बंभदत्तो, साहुस्स तस्सा वयणं अकाउं ।
अणुत्तरे भुंजिअ कामभोगे, अणुत्तरे सो नरए पविठ्ठो ॥ ३४ ॥ ___ व्याख्या-"पंचालराया वि अ"त्ति 'अपिः' पुनगर्थे 'च' पूरणे, ततः पाञ्चालराजः पुनर्ब्रह्मदत्तः साधोस्तस्य वचनमकृत्वा ६ गुरुकर्मतया वजतन्दुलवदत्यन्तदुर्भेदत्वात् 'अनुत्तरान्' सर्वोत्तमान् भुक्त्वा कामभोगान् 'अनुत्तरे' सकलनरकज्येष्ठे अप्रतिष्ठाने इत्यर्थः,
स ब्रह्मदत्तो नरके प्रविष्टः । तदनेन निदानस्य नरकान्तं फलमुपदर्शितं भवतीति सूत्रार्थः ॥ ३४ ॥ यथा चायं नरके 2 ४ प्रविष्टस्तथा तत्कथावशिष्टा इहोच्यते । तथाहि| तमबोध्यतमं हित्वा, सद्वैध इवापटुं निकटमरणम् ॥ विजहार यतिर्भूमी-पतिरपि राज्यं चिरं बुभुजे ॥ ३९२ ॥ तं चान्यदा द्विजः पूर्व-संस्तुतोऽभ्येत्य कोप्यदोवादीव ॥ भुले यदात्मना त-त्प्रदेहि मे भोजनं चक्रिन् ! ॥ ३९३ ॥ ऊचे नृपो मदर्भ, दुर्जर
॥२२६॥

Page Navigation
1 ... 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582