Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 572
________________ उत्तराध्य यनसूत्रम् ॥ २७० ॥ ॥ २७० ॥ | मूलम् - आलओ थीजणाइण्णो, थोकहा य मणोरमा । संथवो चेत्र नारीणं, तासिं इंदिअदरिसणं ॥११॥ कुइअं रुइअं गीअं, सहसा (हसियं) भुत्तासिआणि अ । पणिअं भत्तपाणं च, अइमायं पाणभोअणं ॥ गत्तभूमिच, कामभोगा य दुज्जया । नरस्सत्तगवेसिस्स, विसं तालउडं जहा ॥ १३ ॥ व्याख्या–सुगमं, नवरं–“संथवो " ति संस्तव एकासनभोगादिना परिचयः ॥ स्पष्टमेव, नवरं “भुत्तासिआणि” ति भुक्तासितानि च स्मृतानीति शेषः, तत्र भुक्तानि - भोगरूपाणि आसितानि - स्त्र्यादिभिरेव सहावस्थानानि, हास्याद्युपलक्षणश्चैतत् ॥ गात्रभूषणमिष्टं चेति, चशब्दोऽप्यर्थः, तत 'इष्टमपि' वाञ्छितमपि, आस्तां कृतं, कामौ - रूपशब्दौ भोगाव - गन्धाद्याः कामभोगाश्च दुर्जयाः, नरस्योपलक्षणत्वात् स्त्र्यादेश्च, आत्मगवेषिणो विषं तालपुटं यथा । यथा हि तालपुटविषं सद्योघातित्वेन दारुणविपाकं तथा मोक्षार्थिनां स्त्रीजनाकीर्णालयाद्यपि, शङ्काकाङ्क्षादिदोषहेतुत्वेन तस्यापि संयमरूपभावजीवितापहारहेतुत्वादिति सूत्रत्रयर्थः ॥ अथ निगमयितुमाहमूलम् — दुज्जए कामभोगे अ, निच्चसो परिवज्जए । संकट्ठाणाणि सव्वाणि, वज्जिज्जा पणिहाणवं ॥ १४ ॥ व्याख्या - दुर्जयान् कामभोगान् नित्यं परिवर्जयेत्, पाच्य चशब्दस्य भिन्नक्रमस्येह योगाच्छङ्गास्थानानि च 'सर्वाणि' पूर्वोक्तानि दशापि वर्जयेत् ‘प्रणिधानवान्' एकाग्रमनाः || १४ || एतद्वर्जकश्च किं कुर्यादित्याह— मूलम् - धम्मारामे चरे भिक्खू, धितिमं धम्मसारही । धम्मारामरए दंते, बंभचेर समाहिए ॥ १५ ॥ व्याख्या - धर्म एव दुःखसन्तापतप्तानां निर्वृत्तिहेतुत्वादिष्टफलदानाच्च आराम इव धर्मारामस्तत्र 'चरेत्' प्रवर्त्तेत 'भिक्षुः' मुनिः, अध्य०१६ २७० ॥

Loading...

Page Navigation
1 ... 570 571 572 573 574 575 576 577 578 579 580 581 582