Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 541
________________ उचराध्य पनसूत्रम् ॥२३९॥ ॥२३९॥ | यथाऽमूर्त्तस्यापि नभेसो मूत्तैरपि घटादिभिः सम्बन्धः एवमस्यापि मूर्तैरपि कर्मभिर्न विरुध्यते, तथा संसारहेतुं च वदन्ति बन्धमिति, ततश्वास्त्येवात्मा चेतनाश्रयः, तदभावे हि प्रतिदेहिनमुपलभ्यमानस्य चैतन्यस्य निरास्पदत्वप्रसङ्गात् । न च वाच्यं पृथिव्यादिभूतानि चैतन्यस्याश्रय इति न तस्य निरास्पदत्वमिति ? पृथस्थितेषु तिलेषु स्नेहस्येव पृथग्भूतेषु भूतेषु चैतन्यांशस्याप्यनुपलब्धेः यच्च येषु | पार्थक्यावस्थायां स्वल्पमपि नास्ति न तत्तेषु संहितेष्वपि भवितुमर्हति रेणुकणेषु तैलमित्र, स्यादेतन्मद्याङ्गेषु मदशक्तिः पूर्वमनुपलभ्यमानापि संहितेषु तेषु दृश्यत इति चेन्मैवं तेषु पूर्वमपि मदशक्तेः किञ्चिदुपलभ्यमानत्वात् दृश्यते हि धातकीपुष्पेषु मनाग् बैकल्य| जनकत्वं, गुडे बलवर्धकत्वं चेति, एवमन्येष्वपि तदङ्गेषु द्रष्टव्यम्, न चैवं पार्थक्यावस्थायां पृथ्व्यादिषु किञ्चिदस्पष्टमपि चैतन्यमुपलभ्यते, तत एभ्योऽतिरिक्त एव तस्याश्रय एष्टव्यः स चात्मैवेति स्थितं । स च नित्यो भवान्तरयायी, तस्य च मिथ्यात्वादिभिर्बन्धो बन्धादेव च संसार इति सूत्रार्थः ॥ १९ ॥ ततश्च मूलम् - जहा वयं धम्ममयाणमाणा, पावं पुरा कम्ममकासि मोहा । उख्भमाणा परिरक्खिअंता, तं नेव भुज्जो वि समायरामो ॥ २० ॥ व्यख्या- 'यथा वयं' इत्यावां 'धर्म' सम्यग्दर्शनादिकं अजानन्तौ 'पाप' पापहेतुः 'पुरा' पूर्व 'कर्म' अनुष्ठानं “ अकासि” ति 'मोह'ज्ञानात् 'अपरुद्ध्यमानाः' गृहान्निर्गममलभमानाः 'परिरक्ष्यमाणाः' अनुजीविभिरनुपाल्यमानाः 'तत्' पापकर्म | नैव 'भूयोपि' पुनरपि समाचरामो यथावद्विदितवस्तुस्वरूपत्वादिति सूत्रार्थः ॥ २० ॥ अन्यच्च १ भरूपं हि पथक, रूपिस्यादिभाजनम् । तथा झरूपी जीवोऽपि, रूपिकर्मादिभाजनम् ॥ १ ॥ अध्य०१४ ॥२२९॥

Loading...

Page Navigation
1 ... 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582