________________
उचराध्य
पनसूत्रम् ॥२३९॥
॥२३९॥
| यथाऽमूर्त्तस्यापि नभेसो मूत्तैरपि घटादिभिः सम्बन्धः एवमस्यापि मूर्तैरपि कर्मभिर्न विरुध्यते, तथा संसारहेतुं च वदन्ति बन्धमिति, ततश्वास्त्येवात्मा चेतनाश्रयः, तदभावे हि प्रतिदेहिनमुपलभ्यमानस्य चैतन्यस्य निरास्पदत्वप्रसङ्गात् । न च वाच्यं पृथिव्यादिभूतानि चैतन्यस्याश्रय इति न तस्य निरास्पदत्वमिति ? पृथस्थितेषु तिलेषु स्नेहस्येव पृथग्भूतेषु भूतेषु चैतन्यांशस्याप्यनुपलब्धेः यच्च येषु | पार्थक्यावस्थायां स्वल्पमपि नास्ति न तत्तेषु संहितेष्वपि भवितुमर्हति रेणुकणेषु तैलमित्र, स्यादेतन्मद्याङ्गेषु मदशक्तिः पूर्वमनुपलभ्यमानापि संहितेषु तेषु दृश्यत इति चेन्मैवं तेषु पूर्वमपि मदशक्तेः किञ्चिदुपलभ्यमानत्वात् दृश्यते हि धातकीपुष्पेषु मनाग् बैकल्य| जनकत्वं, गुडे बलवर्धकत्वं चेति, एवमन्येष्वपि तदङ्गेषु द्रष्टव्यम्, न चैवं पार्थक्यावस्थायां पृथ्व्यादिषु किञ्चिदस्पष्टमपि चैतन्यमुपलभ्यते, तत एभ्योऽतिरिक्त एव तस्याश्रय एष्टव्यः स चात्मैवेति स्थितं । स च नित्यो भवान्तरयायी, तस्य च मिथ्यात्वादिभिर्बन्धो बन्धादेव च संसार इति सूत्रार्थः ॥ १९ ॥ ततश्च
मूलम् - जहा वयं धम्ममयाणमाणा, पावं पुरा कम्ममकासि मोहा । उख्भमाणा परिरक्खिअंता, तं नेव भुज्जो वि समायरामो ॥ २० ॥
व्यख्या- 'यथा वयं' इत्यावां 'धर्म' सम्यग्दर्शनादिकं अजानन्तौ 'पाप' पापहेतुः 'पुरा' पूर्व 'कर्म' अनुष्ठानं “ अकासि” ति 'मोह'ज्ञानात् 'अपरुद्ध्यमानाः' गृहान्निर्गममलभमानाः 'परिरक्ष्यमाणाः' अनुजीविभिरनुपाल्यमानाः 'तत्' पापकर्म | नैव 'भूयोपि' पुनरपि समाचरामो यथावद्विदितवस्तुस्वरूपत्वादिति सूत्रार्थः ॥ २० ॥ अन्यच्च
१ भरूपं हि पथक, रूपिस्यादिभाजनम् । तथा झरूपी जीवोऽपि, रूपिकर्मादिभाजनम् ॥ १ ॥
अध्य०१४
॥२२९॥