SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ चचराज्य पनसूत्रम् ॥२३८॥ ॥२३८॥ नेन वा कामगुणैश्चैव ततः श्रमणौ भविष्यावो 'गुणौधधारिणौ' क्षमादिगुणसमूहधारकौ, बहिर्ग्रामादिभ्यो विहारो ययोस्तौ 'बहिर्निहारी' अप्रतिबद्धविहारावित्यर्थः ‘अभिगम्य' आश्रित्य भिक्षामिति सूत्रार्थः ||१७|| आत्मास्तित्वमूलत्वाद्धर्मानुष्ठानस्य तनिराकर्तुं भृगुराह - मूलम् - जहा य अग्गी अरणी असंतो, खीरे घयं तिलमहा तिलेसु । एमेव जाया सरिरंमि सत्ता, संमुच्छई नासइ नावचिहे ॥ १८ ॥ व्याख्या—यथैव चकारस्यैवकारार्थत्वात् अग्निः “अरणि” त्ति 'अरणित ः' अग्निमन्थन काष्ठाद् 'असन्' अविद्यमान एव सम्मूच्छति, तथा क्षीरे घृतं तैलमथ तिलेषु, एवमेव हे जातौ ! शरीरे सवाः " संमुच्छई"ति 'सम्मूर्च्छन्ति' पूर्वमसन्त एवोत्पद्यन्ते । तथा "नास" चि नश्यन्ति' अभ्रपटलवद्विलयमुपयान्ति । " नावचिहे "चि न पुनरवतिष्ठन्ते, शरीरनाशे सति तमाशादिति सूत्रार्थः ।। १८ ।। कुमारावाहतुः - मूलम् -नो इंदिअगिज्झो अमुत्तभावा, अमुत्तभावा वि अ होइ निच्चो । अज्झत्थहेउं निअओस्स बंधो, संसारहेउं च वयंति बंधं ॥ १९ ॥ व्याख्या - नो इन्द्रियग्राह्यः सम्व इति प्रक्रमः, 'अमूर्त भावात्' इन्द्रियग्राह्मरूपाद्यभावात्, तथा अमूर्तभावादपि च भवति नित्यः, तथा हि-यद्द्रव्यत्वे सति अमूर्त्त तमित्यं आकाशवत् । न चैनममूर्त्तत्वादेव बन्धासम्भवः इति वाच्यं ?, यतः 'अज्झत्थ हे उं” ति इहाध्यात्मशब्देनात्मस्थाः मिथ्यात्वादय उच्यन्ते, ततस्तद्धेतुः - तन्निमित्तो नियतो निश्चितोऽस्य जन्तोर्बन्धः - कर्मभिः संश्लेषः, अध्य०१४ ||२३८॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy