SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ पनरत्रम् ॥२२६॥ व्याख्या-'न' नैव तव भोगानुपलक्षणत्वादनार्यकर्माणि च त्यक्तुं बुद्धिा, 'गृद्धः प्रसक्ती 'असि" वर्चसे 'आरम्मपरिग्रहेषु' सावधव्यापारेषु सचिवाचिचादिवस्तुस्वीकारेषु च 'मोघं निष्फलं यथा भवति तथा कृत एतावान् ‘विप्रलापो' विविधष्यर्थवचनविन्यासलक्षणः सम्प्रति तु गच्छामि राजन् ! 'आमन्त्रितोसि' धातूनामनेकार्थत्वात् पृष्टोसि गन्तुमिति शेषः । तव हि जीवितानित्यतादर्शनादिभिर्बहुभिः प्रकारैरनुशिष्यमाणस्यापि न मनागपि वैराग्यमभूदित्यविनेयत्वादुपेक्षेव वरीयसीति भाव इति सूत्रार्थः ॥३३॥ | इत्थमुक्त्वा गते मुनौ ब्रह्मदत्तस्य यदभूतदाह मूलम्-पंचालराया वि अ बंभदत्तो, साहुस्स तस्सा वयणं अकाउं । अणुत्तरे भुंजिअ कामभोगे, अणुत्तरे सो नरए पविठ्ठो ॥ ३४ ॥ ___ व्याख्या-"पंचालराया वि अ"त्ति 'अपिः' पुनगर्थे 'च' पूरणे, ततः पाञ्चालराजः पुनर्ब्रह्मदत्तः साधोस्तस्य वचनमकृत्वा ६ गुरुकर्मतया वजतन्दुलवदत्यन्तदुर्भेदत्वात् 'अनुत्तरान्' सर्वोत्तमान् भुक्त्वा कामभोगान् 'अनुत्तरे' सकलनरकज्येष्ठे अप्रतिष्ठाने इत्यर्थः, स ब्रह्मदत्तो नरके प्रविष्टः । तदनेन निदानस्य नरकान्तं फलमुपदर्शितं भवतीति सूत्रार्थः ॥ ३४ ॥ यथा चायं नरके 2 ४ प्रविष्टस्तथा तत्कथावशिष्टा इहोच्यते । तथाहि| तमबोध्यतमं हित्वा, सद्वैध इवापटुं निकटमरणम् ॥ विजहार यतिर्भूमी-पतिरपि राज्यं चिरं बुभुजे ॥ ३९२ ॥ तं चान्यदा द्विजः पूर्व-संस्तुतोऽभ्येत्य कोप्यदोवादीव ॥ भुले यदात्मना त-त्प्रदेहि मे भोजनं चक्रिन् ! ॥ ३९३ ॥ ऊचे नृपो मदर्भ, दुर्जर ॥२२६॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy