________________
उचराज्यपनसूत्रम् ॥२२७॥
॥२२७॥
मन्यस्य सृजति चोन्मादम् ।। विप्रो जगाद धिक् त्वां कदेर्यमन्नप्रदानेपि ॥ ३९४ ॥ सकुटुम्बमथ नरेन्द्र-स्तं निजभोजनमभोजयकोपात् ॥ अथ तस्याविरभून्निशि, मदनोन्मादो भृशं तस्मात् ।। ३९५ ।। अनपेक्षितनिजजननी - जामिजनीव्यतिकरस्ततो विप्रः ॥ ससुतोपि प्रावर्त्तत, रते सुमत्त इव विकलः ॥ ३९६ ॥ प्रातस्तु लञ्जया स द्विजो गृहजनश्च तस्य नान्योन्यम् ॥ दर्शयितुमास्यैमशकन्, मशकपटेल मलिनमवसादात् ।। ३९७ ।। अनिमित्तातिम, सकुटुम्बमहीलयन्महीशोऽसौ ॥ इति चिन्तयममर्षा - नगरानिरगात्ततो विप्रः ॥ ३९८ ॥ तेन भ्रमताथ बहिः, पशुपालोऽदर्शि दर्शिताश्चर्यः । कर्करिकाभिः पिप्पल - दलपटलं छिद्रयन् दूरात् ॥ ३९९ ॥ मत्कार्ये कर्तुमसौ, क्षम इति निश्चित्य वाडवेः स ततः ॥ इत्यूचे तं सन्मान - दानव चनैर्वशीकृत्य || ४०० || राजपथे यो द्विरंदे, स्थितः सितछत्रचामरो व्रजति । प्रक्षिप्य गोलि के त्वं, तस्य दृशौ स्फोटयेः क्षिप्रम् ॥ ४०१ ॥ तत्प्रतिपद्य जडत्वात् स्थित्वा कुडयान्तरे दृशौ नृपतेः ॥ सह मुक्तगोलिकाम्यां, सोपि समं स्फोटयामास ॥ ४०२ ॥ पशुवत्पशुपालः सोथ, हन्यमानोङ्गरक्षकैद्धृत्वा ॥ राज्ञेऽपकारिणं तं द्विजमाख्यत्कुमतिदानरिपुम् ॥ ४०३ ॥ तदवेत्य नृपः कुपित-स्तं विप्रं पुत्रमित्रबन्धुयुतम् ॥ व्यापादितवान् सद्यः, कोपो महतां हि नो विफलः ॥ ४०४ || अपरान् पुरोहितादी - नपि निखिला नगरवासिनो विप्रान् ॥ सोऽघातयदुपा क्व तु, रोषान्धानां विवेकमतिः १ ।। ४०५ ।। सचिवं चैवमवोचत, भृत्वा स्थालं द्विजैमनां नयनैः ॥ स्थापय मम पुरतो वह - महं यथातानि मृद्नामि ॥ ४०६ ॥ राज्ञस्तस्य तमाशय - मवेत्य सचिवोपि शुभमतिः क्रूरम ।। आपूर्य श्लेष्मातकें- फलैः पुरोऽस्थापय१ कृपणम् । २ जामिः भगिनी । ३ जनी पुत्री । ४ मदिरया मदोन्मत्तः । ५ मुखम् । कजलसमूह मे लिनम् । ७ खेदात् । ८ शत्रुः । ९ विप्रः । १०. गजे । ११ गोपः । १२ विप्राणाम् । १३ शालोटकतरुफलैः।
अध्य०१३
રબા