________________
उपराज्य
बगसूत्रम् ॥२२५॥
॥२२५॥
दिनोपलक्षणश्चैतचतोऽनेनायुषोऽस्थिरत्वमुक्तं, उक्तश्च - "क्षण - याम-दिवस-मास-च्छलेन गच्छन्ति जीवितदलानि ॥ इति विद्वानपि कथमिह, गच्छसि निद्रावशं रात्रौ १ ॥ १ ॥" न च मोगा अपि, अपेरत्र सम्बन्धात् पुरुषाणां 'नित्याः' शाश्वताः, यत उपेत्य स्वप्रवृत्या न तु पुरुषाभिप्रायेण भोगाः पुरुषं त्यजन्ति, कमिव क इव ? इत्याह-दुमं यथा क्षीणफलं वेत्यौपम्ये भिन्नक्रम, ततः 'पक्षिण इव' विहगा इव, फलोपमानि हि पुण्यानि, ततस्तदपगमे क्षीणफलं वृक्षमिव पुरुषं पक्षिण इन भोगा मुञ्चन्तीति सूत्रार्थ ॥ ३१ ॥ यत एवमतः -
मूलम् - जइ तंसि भोगे चइउं असत्तो, अजाई कम्माई करेहि रायं ! |
धम्मठिओ सव्वपयाणुकंपी, तो होहिसि देवो इओ विडवी ॥ ३२ ॥
व्याख्या - यदि त्वमसि भोगांस्त्यक्तुमशक्तः, ततः किम् ? इत्याह- 'आर्याणि' शिष्टजनोचितानि 'कर्माणि' कार्याणि कुरु हे राजन् ! 'धर्मे' प्रक्रमा गृहस्थधर्मे सम्यग्दृष्ट्याद्याचारलक्षणे स्थितः सन् 'सर्वप्रजानुकम्पी' समस्तप्राणीदयापरः । ततः किं फलम् १ इत्याह- 'ततः' आर्यकर्मकरणाद्भविष्यसि 'देवो' वैमानिकः 'इतः' अस्मान्मनुष्य भवादनन्तरं “विउच्चि "त्ति वैक्रियशरीरवानिति सूत्रार्थः ॥ ३२ ॥ एवमुक्तोपि यदासौ न किश्चित्प्रत्यपद्यत तदा मुनिः स्माह
मूलम् - न तुज्झ भोगे चइऊण बुद्धो, गिद्धो सि आरंभपरिग्गहेसु ।
मोहं कओ इत्तिओ विप्पलावो, गच्छामि रायं ! आमंतिओ सि ॥ ३३ ॥
अध्य०१३
|||२२५॥