Book Title: Upmitibhav Prapancha Katha Vivaran Prastav 4 5
Author(s): Motichand Girdharlal Kapadia
Publisher: Jain Dharm Prasarak Sabha

Previous | Next

Page 777
________________ श्रीप्रभावकचरित्रे श्रीसिद्धर्षिसूरिप्रबन्धः Jain Education International 1000 श्रीसिद्धर्षिः श्रियो देयाद्धियामध्यानधामभूः । निर्ग्रन्थग्रन्थतामा पुर्यग्रन्थाः साम्प्रतं भुवि ॥ १ ॥ श्रीसिद्धर्षिप्रभोः पान्तु वाचः परिपचेलिमाः । अनाद्यविद्यासंस्कारा यदुपास्तेर्भिदेलिमाः ॥ २ ॥ सुप्रभुः पूर्वजो यस्य सुप्रभः प्रतिभावताम् । बंधुर्बन्धुरभाग्यश्रीर्यस्य माघः कवीश्वरः ॥ ३ ॥ चरितं कीर्त्तयिष्यामि तस्य त्रस्यज्जडाशयम् । भूभृञ्चक्रचमत्कारि वारिताखिलकल्मषम् ॥ ४ ॥ अजर्जरथियां धाम वेषालक्ष्यजरजरः । अस्ति गुर्जर देशोऽन्यसजराजन्यदुर्जरः ॥ ५ ॥ तत्र श्रीमालमित्यस्ति पुरं मुखमिव क्षितेः । 'चैत्योपरिस्थं कुम्भालिर्यत्र चूडामणीयते ॥ ६ ॥ प्रासादा यत्र दृश्यन्ते मत्तवारणराजिताः । राजमार्गाश्च शोभन्ते मत्तवारणराजिताः ॥ ७ ॥ जैनालयाश्च सन्त्यत्र नवं धूपगमं श्रिताः । महर्षयश्च निःसङ्गा न बंधूपगमं श्रिताः ॥ ८ ॥ तत्रास्तिहास्तिकास्वीयापहस्तितरिपुव्रजः । नृपः श्रीवर्मलाताख्यः शत्रुमर्मभिदाक्षमः ॥ ९ ॥ तस्य सुप्रभदेवोऽस्ति मंन्त्री मित्रं जगत्यपि । सर्वव्यापारमुद्राभृन्मुद्रादुर्जनानने ॥ १० ॥ १) ध्यान स्थाने ध्याम पाठांतर २ प्रतिभावानाम् पाठांतर ( शुद्ध शाय छे ). ३ अहीं बन्धुः उचित नशाय छे. ४ भाग्यस्य पाहांतर ५ परिस्था पाठांतर वधारे शुद्ध नशाय छे. ६ मन्दवारण पाठांतर प्रथम पंक्तिभां नवं धूपगमं छोडनुं मने मीलभां न बन्धु उपगमं छोउवु. व याने व नो मले६ छे. ८ काश्वीय पाठांतर वधारे अर्थानुश्य नाशाय छे ९ वर्मस्थाने चर्म; अध भगोये मर्म छे. १० मंत्री मिततपः किल पाठांतर. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804