Book Title: Upmitibhav Prapancha Katha Vivaran Prastav 4 5
Author(s): Motichand Girdharlal Kapadia
Publisher: Jain Dharm Prasarak Sabha

Previous | Next

Page 784
________________ यरित्रे ] श्री सिद्धर्षिप्रमन्ध. का स्पर्धा समरादित्यकवित्वे पूर्व सूरिणी । खद्योतस्येव सूर्येण माहग्मन्दमतेरिव ॥ ९४ ॥ इत्थमुद्वे जितस्वान्तस्तेनासौ निर्ममे बुधः । अन्यदुर्बोधसम्बद्धां प्रस्तावाष्टकसम्भृताम् ॥ ९५ ॥ रम्यामुपमितभवप्रपञ्चाख्यां महाकथाम् । सुबोधकथितां विद्वदुत्तमाङ्गविधूननीम् ॥ ९६ ॥ ग्रन्थाव्याख्यानयोग्यं यदेनं चक्रे शमाश्रयम् । अतः प्रभृति सङ्गोऽत्र व्याख्यातृविरुदं ददौ ॥ ९७ ॥ दर्शिताथास्य तेनाथ हसितुः स ततोऽवदत् । ईदृक् कवित्वमाधेयं त्वगुणाय मयोदितम् ॥ ९८ ॥ ततो व्यचिन्तयत्सिद्धो ज्ञायते यदपीह न । तेनाप्यज्ञानता तस्मादध्येतव्यं ध्रुवं मया ॥ ९९ ॥ तर्कग्रन्था मयाधीताः स्वपरेपीह ये स्थिताः । बौधप्रमाणशास्त्राणि न स्युस्तद्देशमन्तरा ॥ १०० ॥ आपप्रच्छे गुरुं सम्यग विनीतवचनैस्ततः । प्रान्तरस्थितदेशेषु गमनायोन्मनायितः ॥ १०१ ॥ निमित्तमवलोक्याथ श्रीतेन विधिना ततः । सवात्सल्यमुवाचाथ नाथप्राथमकल्पिकम् ॥ १०२ ॥ असन्तोषः शुभोऽध्याये वत्स ! किञ्चिद्वदामि तु । सत्वमत्र न सत्त्वानां समये प्रमये धियाँ ॥ १०३ ॥ भ्रान्तं चेतः कदापि स्याद्धेत्वाभासस्तदीयकैः । अर्थी तदागमश्रेणेः स्वसिद्धान्तपराङ्मुखः ॥ १०४ ॥ उपार्जितस्य पुण्यस्य नाशं त्वं प्राप्स्यसि ध्रुवम् । निमित्तत इदं मन्ये तस्मान्मात्रोद्यमी भव ॥ १०५ ॥ अथ चेदवलेपस्ते गमने न निवर्तते । तथापि मम पार्श्व त्वमागा वाचा ममैकदा ॥ १०६ ॥ रजोहरणमस्माकं व्रतानं नः समर्पयेः । इत्युक्त्वा मानमातिष्टरुं चित्तव्यथाधरः ॥ १०७ ॥ Jain Education International १ पूर्वसूरिणाम छ । विभनि वधारे ठी लागे छे. २ रिह पाठांतर. ३ प्रथव्यात. सूयन ग्रन्थं- अरामर अर्थ आये छे. ४ नाथः लेाये (श्रेणी) या सूथना मशभर के पाउ अशुद्ध प्राय छे. ५ धियां पाठांतर वधारे सभीथीन में सत्त्वं साथ सत्यं पाठांतर ६ प्राप्यसि पाठांतर. ७ गुरुं स्थाने गुरु सूयन पाहावर या ते. ૯૪ ૧૪૩૭ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804