Book Title: Upmitibhav Prapancha Katha Vivaran Prastav 4 5
Author(s): Motichand Girdharlal Kapadia
Publisher: Jain Dharm Prasarak Sabha

Previous | Next

Page 783
________________ १४३६ ઉપમિતિ ભવપ્રપંચા કથા. [ પ્રભાવક ब्रह्मणीव मनो लीनं ममातो गुरुपादयोः । निपत्य ब्रूहि दीक्षा (हि) पुत्रस्य मम यच्छत ॥ ८ ॥ इति निर्वन्धतस्तस्य तथा चक्रे शुभङ्करः। गुरुः प्रादात्परिव्रज्यां तस्य पुण्ये स्वरोदये ॥ ८१॥ दिनैः कतिपयैर्मासमाने तपसि निर्मिते । शुभे लग्ने पञ्चमहावतारोपणकर्मणि ॥ ८२ ॥ दिग्बन्धं श्रावयामास पूर्वतो गच्छसन्ततिम् । सत्प्रभुः शृणु वत्स! त्वं श्रीमान् वज्रप्रभुः पुरा ॥ ८३॥ तच्छिष्यवज्रसेनस्याभूद्विनेयचतुष्टयी। नागेन्द्रो निर्वृतिश्चन्द्रः ख्यातो विद्याधरस्तथा ॥ ८४॥ आसीनिर्वृत्तिगच्छे च सुराचार्यो धियां निधिः। तद्विनेयश्च गर्गपिरहं दीक्षागुरुस्तव ॥ ८५ ॥ शीलाङ्गानां सहस्राणि त्वयाप्टादश निर्भरम् । वोढव्यानि विविधाममभिजात्यफलं ह्यदः॥८६॥ ओमिति प्रतिपद्याथ तप उग्रं चरनसौ। अध्येता वर्तमानानां सिद्धान्तानामजायत ॥ ८७ ॥ स चोपदेशमालाया वृत्ति वालावबोधिनीम् । विदधेऽवहितप्रज्ञः सर्वज्ञ इव गीभरैः॥८८॥ सूरिर्दाक्षिण्यचन्द्राख्यो गुरुभ्रातास्ति तस्य सः। कथां कुवलयमालां चके शृङ्गारनिर्भराम् ॥ ८९ ॥ किञ्चित्सिद्धकृतग्रन्थसोत्प्रासः सोऽवदत्तदा । लिखितः किं नेवो ग्रन्थस्तदवस्थागमाक्षरैः ॥९०॥ शास्त्रं श्रीसमरादित्यचरितं कीर्त्यते भुवि । यद्रसोर्मिप्लुता जीवाः क्षुत्तृडाद्यं न जानते ॥ ९१॥ अथोत्पत्तिरसाधिक्यसारा किञ्चित्कथापि मे। अहो ते लेखकस्येव प्रन्थः पुस्तकपूरणः॥९२॥ अथ सिद्धकविः प्राह मनो दुनो(पि)षि नो खरम् । वयोतिक्रान्तपाठानामीदृशी कविता भवेत् ॥ ९३ ॥ ૧ એક પ્રતમાં પુત્રી પછીનો આખો વિભાગ અને ૮૧ માં શ્લોકનો રસ सुधानो विभाग छोडधो छ. २ नवम्रन्थैः ५२. ३ अर्थोपत्तिये ( मी), सूचना परामर मागे . ४ भा२। धारा प्रभारी क्चो नये. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804