Book Title: Upmitibhav Prapancha Katha Vivaran Prastav 4 5
Author(s): Motichand Girdharlal Kapadia
Publisher: Jain Dharm Prasarak Sabha
________________
૧૪૪૦
ઉપમિતિ ભવપ્રપંચા કથા.
किं कर्त्ता च मया शिष्याभासेनाथ गुरुर्मम । विज्ञायैतन्निमित्तेनोपकर्त्तुं त्वाह्वयन्मिषात् ॥ १३२ ॥ तदङ्गिरजसा मौलि पावयिष्येऽधुनानिशम् । आगः स्वं कथयिष्यामि गुरुः स्यान्नानीदृशः ॥ १३३ ॥ तथागतमतिभ्रान्तिर्गता मे ग्रन्थतोऽमुतः । कोद्रवस्य यथा शस्त्राघाततो मदनभ्रमः ॥ १३४ ॥ एवं चिन्तयतस्तस्य गुरुर्बाह्यभुवस्ततः । आगतस्तदृशं पश्यन् पुस्तकस्थं मुदं दधौ ॥ १३५ ॥ नैषेधिकीमहाशब्दं श्रुत्वोर्द्धः सम्भ्रमादभूत् । प्रणम्य रूक्षयामास शिरसा तत्पदद्वयम् ॥ १३६ ॥ उवाच किंनिमित्तोऽयं मोहस्तव मयि प्रभो ! | कारयिष्यन्ति चैत्यानि पश्चात्किं मादृशोऽधमाः ॥ १३७ ॥ उन्मीला दूषका स्फोटस्फुटवेदनविद्रुहः । स्वादविनाश्वला दन्ताः कुशिष्याश्च गताः शुभाः ॥ १३८ ॥ आहूतो मिलनव्याजाद्बोधायैव ध्रुवं प्रभो ! | हारिभद्रस्तथा ग्रन्थो भवता विदधे करे ॥ १३९ ॥ भग्नभ्रमः कुशास्त्रेषु प्रभुं विज्ञपये ततः । स्वस्यान्तेवासिपाशस्य पृष्टे हस्तं प्रदेहि मे ॥ १४० ॥ देवगुर्वाद्यवज्ञोत्थमहापापस्य मे तथा । प्रायश्चित्तं प्रयच्छाद्य दुर्गतिच्छित्कृपां कुरु ॥ १४१ ॥ अथोवाच प्रभुस्तत्र करुणाशरणाशयः । आनन्दाश्रुपरिश्रुत्या परिक्लिन्नोत्तरीयकः ॥ १४२ ॥ मा खेदं वत्स ! कार्षीस्त्वं को वनीवद्यते नवा । पानशौण्डै रिवाभ्यस्त कुतर्कमदविह्वलैः ॥ १४३ ॥ नाहं त्वां धूर्तितं मन्ये यद्वचो विस्मृतं न मे । मदेन विकलः कोऽपि त्वां विना प्राकूश्रुतं स्मरेत् ॥ १४४ ॥ वेषादिधारणं तेषां विश्वासायापि सम्भवेत् ।
अतिभ्रान्ति च नात्राहं मानये तव मानसे ॥ १४५ ॥ प्रख्यातवक्तृकप्रज्ञैज्ञातशास्त्रार्थमर्मकः । कः शिष्यस्त्वादृशो गच्छेऽतुच्छे मच्चित्तविभ्रमः ॥ १४६ ॥
Jain Education International
१ वनीवच्यते पाठांतर वनीवञ्च्यते सूयन ने प्रेमी २ धूर्तित स्थाने धूर्वित सायुं ३ लेभे येवो ओ. ने प्रेमीनो भत छे. ३ प्रज्ञा पाठांतर.
[ अलाव
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804