Book Title: Upmitibhav Prapancha Katha Vivaran Prastav 4 5
Author(s): Motichand Girdharlal Kapadia
Publisher: Jain Dharm Prasarak Sabha

Previous | Next

Page 779
________________ ૧૪૩૨ ઉપમિતિ ભવપ્રપંચા કથા. अगूढातिप्ररूढेऽस्मिन्नहर्निशमसौऽवशः । तंदेकचित्तधूर्त्तानां सदाचारादभूद्बहिः ॥ २४ ॥ सैपिपासाशनायाति शीतोष्माश्च विमर्शतः । योगीव लीनचित्तोऽत्र व्यत्रस्यत्साधुवाक्यतः ॥ २५ ॥ निशीथातिक्रमे रात्रावपि स्वकगृहागमी । वध्वाः प्रतीक्ष्य एकस्यास्तया नित्यं प्रतीक्ष्यते ॥ २६ ॥ अन्यदा रात्रि जागर्या निर्यातवपुरुद्यमाम् । गृहव्यापारकृत्येषु विलानाङ्गस्थितिं ततः ॥ २७ ॥ ईदृग् ज्ञातेयसम्बन्धवशकर्कशवाग्भरम् । श्वश्रूरश्रूणि मुञ्चन्ती वधूं प्राह सगद्गदम् ॥ २८ ॥ सत्यां पराभूतं कस्ते कुर्यात्ततः स्वयम् । विद्यते कुविकल्पैस्त्वं गृहकर्मभरालसा ॥ २९ ॥ श्वशुरोऽपि च ते व्यग्रो यदा राजकुलादिह । आगन्ता च ततो देवावसरादावसज्जिते ॥ ३० ॥ मामेवाक्रोक्ष्यति त्वं तत्तथ्यं मम निवेदय । यथा द्राग्भवदीयातिप्रतिकारं करोम्यहम् ॥ ३१ ॥ सा न किञ्चिदिति प्रोच्य श्वश्रू निर्बन्धतोऽवदत् । युष्मत्पुत्रोऽर्धरात्रातिक्रमेऽभ्येति करोमि किम् ? ॥ ३२ ॥ श्रुत्वेत्याह तदा श्वश्रूः किं नाग्रेऽजल्पि मे पुरः । सुतं स्वं बोधयिष्यामि वचनैः कर्कशप्रियैः ॥ ३३ ॥ अद्य स्वपिहि वत्से ! त्वं निश्चिन्ताहं तु जागरम् । कुर्वे सर्व भलिष्यामि नात्र कार्याधृतिस्त्वया ॥ ३४ ॥ ओमित्यथ स्नुषा प्रोक्ते रात्रौ तद्वारि तस्थुषी विनिद्रा पश्चिमे यामे रात्रेः पुत्रः समागमत् ॥ ३५ ॥ द्वारं द्वारमिति प्रौढस्वरोऽसौ यावदूचिवान् । इद्रात्रौ क आगन्ता मातावादीदिति स्फुटम् ॥ ३६ ॥ सिद्धः सिद्ध इति प्रोक्ते तेन सा कृतकक्रुधा । प्राह सिद्धं न जानेऽहमप्रस्तावविहारिणम् ॥ ३७ ॥ Jain Education International १ प्ररूढोऽस्मि......सोधसः २ तदाकवित्तधू. ३ सपिपासाशनायातिशीतोष्णाच पाठांतर ४ खिद्यसे पाठांतर. [ अलाव For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804