Book Title: Upmitibhav Prapancha Katha Vivaran Prastav 4 5
Author(s): Motichand Girdharlal Kapadia
Publisher: Jain Dharm Prasarak Sabha

Previous | Next

Page 780
________________ १४33 यरित्र શ્રી સિદ્ધર્ષિપ્રબન્ધ. अधुनाहं व यामीति सिद्धेनोक्ते जनन्यपि । अन्यदा शीघ्रमायाति यथास्मात्कर्कशं जगौ ॥ ३८॥ एतावत्यां निशि द्वारं विवृत्तं यत्र पश्यसि । तत्र यायाः समुद्घाटद्वारा सर्वापि किं निशा?॥ ३९ ॥ भवत्वेवमिति प्रोक्ते सिद्धस्तस्मानिरीय च । पश्यन्ननावृतद्वारो द्वारेऽगादनगारिणाम् ॥ ४०॥ सदाप्यनावृतद्वारं शालायां पश्यति स्म सः। मुनीन् विविधचर्यासु स्थितान्निष्पुण्यदुर्लभान् ॥ ४१॥ कांश्चिद्वैरात्रिकं कालं विनिद्रस्य गुरोः पुरः। प्रवेदयत उत्साहात्कांश्चित्स्वाध्यायरङ्गिणः ॥ ४२ ॥ उत्कटिकासनान् कांश्चित् काश्चिद्गोदोहिकासनान् । वीरासनस्थितान् कांश्चित्लोऽपश्यन्मुनिपुङ्गवान् ॥४३॥ अचिन्तयच्छमसुधानिझरे निर्जरा इव । सुखातशीतला एते तृष्णाभीता मुमुक्षवः ॥४४॥ मौदृशा व्यसनासक्ता अभैक्ता स्वगुरुष्वपि । मनोरथद्रुहस्तेषां विपरीतविहारिणः॥ ४५ ॥ धिग्जन्मेदमिहामुत्र दुर्यशो दुर्गतिप्रदम् । तस्मात्सुकृतिनी वेला यत्रैते दृष्टिगोचरा ॥ ४६॥ अमीषां दर्शनात्कोपिन्याप्युपतं मयि । जनन्या क्षीरमुत्तप्तमपि पित्तं प्रणाशयेत् ॥४७॥ ध्यायन्नित्यग्रतस्तस्थौ नमस्तेभ्यश्चकार सः। प्रदत्तधर्मलामाशीर्निर्ग्रन्थः प्रभुराह च ॥४८॥ को भवानिति तैः प्रोक्ते प्रकटं प्राह साहसी। शुभङ्करात्मजः सिद्धो द्यूतान्मात्रा निषेधितः॥४९॥ उद्घाटद्वारि यायास्त्वमोकसीयन्महानिशि । इयन्ती वाचना दत्ताऽप्रावृतद्वारि सङ्गतः॥५०॥ अतःप्रभृति पूज्यानां चरणौ शरणौ मम । प्राप्ते प्रवहणे को हि निस्तितीर्षति नाम्बुधिम् ? ॥ ५१ ॥ उपयोगं श्रुते दत्त्वा योग्यतादृष्टमानसाः। प्रभावकं भविष्यन्तं परिज्ञायाथ तेऽवदन् ॥५२॥ १ द्वारा योग्य नाय छे. द्वार 48iत२ छे. २ तादृशाः ५it२. ३ अभव्याः पत२. ४ सूपकृतं मयि ५iत२. ५ निर्ग्रन्थप्रभु ५iत२. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804