Book Title: Upmitibhav Prapancha Katha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 260
________________ बहुविधमन्मथकेलिरसा दोलारमणसहेन / एते सुरतपराश्च गुरुतरमधुपानमदेन // 3 // अन्यच्च-विकसिते सहकारवने रतः, कुरुबकस्तबकेषु च लम्पटः / मलयनारुतलोलतया वने, सततमेति न याति गृहे जनः // 4 // इदमहो पुरलोकशताकुलं, प्रवरचूतवनावलिमध्यगम् / विलसतीह सुरासवपायिनां, ननु विलोकय भद्र ! कदम्बकम् // 5 // मणिविनिर्मितभाजनसंस्थितैरतिविनीतजनप्रविलोकितैः / प्रियतमाधरमृष्टविदंशनैश्चषकरत्नमयूखविराजितैः // 6 // सुरभिनीरजगन्धसुवासितैः, सुवनितावदनाम्बुरुहार्पितैः / विविधमघरसैर्मुखपेशलैः, कृतमिदं तदहो मदनिर्भरम् // 7 // तथाहि--पश्य वत्स ! यदत्रापानकेष्वधुना वर्तते-- पतन्ति पादेषु पठन्ति मादिताः, पिबन्ति मद्यानि रणन्ति गायनाः / रसन्ति वाम्बुरुहाणि योषितामनेकचाटूनि च कुर्वते जनाः // 8 // वदन्ति गुह्यानि सशब्दतालकं, मदेन नृत्यन्ति लुडन्ति चापरे / विघूर्णमानैर्नयनैस्तथापरे, मृदङ्गवंशध्वनिना विकुर्वते // 9 // स्वपूर्वजोल्लासनगर्वनिर्भरा, धनानि यच्छन्ति जनाय चापरे / भ्रमन्ति चान्ये विततैः पदक्रमैरितस्ततो यान्ति विना प्रयोजनम् // 10 // एवं च यावर्षयति प्रकर्षस्य विमर्शस्तदापानकं तावनिपतिता माधवीलतावितानमण्डपे कुवलयदलविलासलासिनी प्रकर्षस्य दृष्टिः / अभिहितमनेन-मामेदमपरमापानकमेतस्मात्सविशेषतरं विजृम्भते / विमर्शनाभिहितं-ननु सुलभाऽत्र भवचक्रनगरे वसन्तसमयागमप्रमोदितानां नागरकलोकानामापानपरम्परा, तथाहि-पश्य चम्पकवीथिकां, निरूपय मृद्वीकामण्डपान्, विलोकय कुब्जकवनगहनानि, निरीक्षस्व कुन्दपादपसन्दोहं, निभालय रक्ताशोकतरुस्तोम, साक्षात्कुरु बकुलविटपिगहनानि / यद्येतेषामेकमपि विलसदुद्दामकामिनीवृन्दपरिकरितमहेश्वरनागरकलोकविरचितापानकविरहितमुपलभ्येत भवता ततो मामकीनवचनेऽन्यत्रापि न सम्प्रत्ययो विधेयः प्रतारकत्वाद्भद्रेणेति / प्रकर्षणोक्तं-ननु कोऽत्र सन्देहः ? दृश्यन्ते प्रायेणैवात्र प्रदेशे स्थितैर्य एते मामेनोद्घाटिता वनविभागा इति / किं च न केवलमेते काननाभोगाः सर्वेऽपि विविधमधुपानमत्तोत्तालकलितललितमदलोल्लासमिलितबहललोककलकलाकुलाः, किं तर्हि कचिद्रसन्नूपुरमेखलागुणैनितम्बबिम्बातुलभारमन्थरैः / तरुप्रसूनोच्चयवाञ्छयाऽऽगतैः, सभर्तृकैर्भान्ति विलासिनीजनैः // 1 // कचित्तु तैरेव विघट्टिताः स्तनैमहेभकुम्भस्थलविभ्रमैरिमे / विभान्ति दोलापरिवर्तिभिः कृताः, सकामकम्पा इव माम ! शाखिनः // 2 // कचिल्लसद्रासनिबद्धकौतुकाः, कचिद्रहःस्थाननिबद्धमैथुनाः / इमे कचिन्मुग्धविलासिनीमुखेन पद्मषण्डादधिका न शोभया // 3 // विमर्शनाभिहितं--साधु भद्र ! साधु सुन्दरं विलोकितं भवता, नूनमेवंविधा एव सर्वेऽपीमे काननाभोगाः, अत एव मयाऽभिहितं यथाऽवसरे भवतो भवचक्रनगरदर्शनकुतूहलं संपन्न, यतोऽस्मिन्नेव


Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306