Book Title: Upmitibhav Prapancha Katha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 283
________________ मुक्ति स्वरुप भवानिवेदः 252 यनदण्डनीत्यादौ महानादरो विधेयः, अपि त्वैकान्तिकात्यन्तिकं तत्साधनमन्वेषणीयं, सर्वथा तदनुष्ठानोपायेन तत्र यातव्यं यत्रैते जरारुजादयः सर्वेऽप्युपद्रवा न भवन्ति / प्रकर्षः प्राह-माम ! कुत्र पुनरेते न प्रभवन्ति ? विमर्शेनोक्तंअस्ति सनगरी रम्या, निवृतिर्नाम विश्रुता / अनन्तानन्दसन्दोहपरिपूर्णा निरत्यया // 1 // तस्यां न प्रभवन्त्येव, संस्थितानामुपद्रवाः / जरारुजाद्याः सा यस्मात्सर्वोपद्रववर्जिता // 2 // तस्यां च गन्तुकामेन, सेव्याः सद्वीर्यवृद्धये / पुरुषेण सदा तत्त्वबोधश्रद्धानसत्क्रियाः // 3 // ततो विवृद्धवीर्याणां, तस्या मार्गेऽपि तिष्ठताम् / तनूभवन्ति दुःखानि, वर्धते सुखपद्धतिः॥४॥ इदं तु नगरं भद्र ! भवचक्रं चतुर्विधम् / सदैवामुक्तमेताभिस्तथाऽन्यैर्भूर्युपद्रवैः // 5 // को वात्र गणयेत्तात ! क्षुद्रोपद्रवकारिणाम् / पुरे संख्यानमप्येषां, स्वस्थानमिदमीदृशम् // 6 // प्रकर्षः प्राह मामेदं, नगरं ननु सर्वथा / एवं कथयतो दुःखबहुलं कथितं त्वया // 7 // साधु साधूदितं वत्स ! बुद्धं वत्सेन भाषितम् / विज्ञातं भवचक्रस्य, सारमित्याह मातुलः // 8 // प्रकर्षः प्राह यद्येवं, ततोऽत्र नगरे जनाः / वसन्तः किं सुनिर्विण्णाः, किं वा नेति निवेद्यताम् // 9 // विमर्शेनोदितं वत्स ! निर्वेदो नास्ति देहिनाम् / अत्रापि वसतां नित्यं, तत्राकर्णय कारणम् // 10 // य एते कथितास्तुभ्यं, महामोहादिभूभुजः / अन्तरङ्गाः स्ववीर्येण, वशीकृतजगत्त्रयाः // 11 // एतेषां कौशलं किञ्चिदपूर्व जनमोहने / विद्यते तद्वशेनैते, निर्विद्यन्ते न नागराः // 12 // एते हि चरटप्राया, दुःखदाः शत्रवोऽतुलाः / महामोहादयो वत्स ! भवचक्रनिवासिनाम् // 13 // तथापि प्रतिभासन्ते, तेषां मोहितचेतसाम् / यथैते सुहृदोऽस्माकं, वत्सलाः सुखहेतवः // 14 // इदं च नगरं वत्स ! दुःखसङ्घातपूरितम् / तथाप्यत्र स्थिता लोका, मन्यन्ते सुखसागरम् // 15 // निश्चिन्ता निर्गमोपाये, वसनेनात्र मोदिताः / निवसन्ति सदा तुष्टा, महामोहादिवान्धवैः // 16 // योऽपि निर्गमनोपायं, भवचक्रात्प्रभाषते / तस्याप्येतेऽपि रुष्यन्ति, यथैव सुखवश्चकः // 17 // तच्च तच्च प्रकुर्वन्ति, महायत्नेन सर्वथा / येनात्रैव भवत्येषां, वासः पापेन कर्मणा // 18 // तदेवं निजवीर्येण, महामोहादिशत्रुभिः / क्रोडीकृता न जानन्ति, किश्चिदेते तपस्विनः // 19 // शब्दादिसुखसम्भोगं, तुच्छ दुःखात्मकं सदा / एते मनसि मन्यन्ते, यथेदममृतोपमम् // 20 // ततोऽमी यावदेतेषां, प्रभवो वत्स ! भूभुजः। भवचक्रे न निर्विण्णास्तावल्लोकाः कदाचन // 21 // प्रकर्षः प्राह यद्येवं, ततोऽमीषां दुरात्मनाम् / सदोन्मत्तकतुल्यानां, किमस्माकं विचिन्तया ? // 22 // केवलं माम ! सर्वेषां, महामोहादिभूभुजाम् / दर्शितं भवचक्रेऽत्र, मम वीर्य त्वया स्फुटम् // 23 // यस्त्वसौ वर्णितः पूर्व, महामोहमहत्तमः / वष्टः कुदृष्टिपत्नीको, मिथ्यादर्शननामकः // 24 // तेन यद्भवचक्रेऽत्र, स्ववीर्येण विजृम्भितम् / तन्मेऽद्यापि त्वयाऽऽख्यातं, नापि संदर्शितं मम // 25 // ततोऽहं द्रष्टुमिच्छामि, श्रोतुं च गुणरूपतः / तद्वशीभूतलोकानां, चरितं माम ! साम्प्रतम् // 26 // विमर्शः प्राह नगरं, समस्तमिदमञ्जसा / प्रायेण वर्तते तस्य, वशे नास्त्यत्र संशयः // 27 // तथाहि-यदिदं वर्णितं तेऽत्र, मया पुरचतुष्टयम् / तत्र सर्वत्र विद्यन्ते, लोकास्तद्वशवर्तिनः // 28 // तथापि ये विशेषेण, तस्याज्ञाकारिणो जनाः / तेषां स्थानानि ते भद्र ! दर्शयामि परिस्फुटम् / ततश्चोर्ध्व विशेषेण, कृत्वाऽसौ दक्षिणं करम् / तर्जन्या दर्शयत्येवं, तानि स्थानानि यत्नतः // 30 // अमूनि मानवावासे, दृश्यन्ते यानि सुन्दर ! / अभ्यन्तरपुराणीह, षडवान्तरमण्डले // 31 // मिथ्यात्ववर्णन

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306