Book Title: Upmitibhav Prapancha Katha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________ 256 लोकायतैः पुनर्वत्स ! सा निवृतिनगरी, नास्तीति प्रख्यापितं लोके, यतोऽमी ब्रुवतेनास्ति निवृतिर्नास्ति जीवो, नास्ति परलोको, नास्ति पुण्यं, नास्ति पापमित्यादि / किं तर्हि ? पृथिव्यापस्तेजो वायुरिति तत्त्वानि, तत्समुदाये शरीरेन्द्रियविषयसंज्ञा / तेभ्यचैतन्यं मद्याङ्गेभ्यो मदशक्तिवत् / जलबुद्बुदवज्जीवाः / प्रवृत्तिनिवृत्तिसाध्या प्रीतिः पुरुषार्थः, स च काम एव, नान्यो मोक्षादिः / तस्मानान्यत्पृथिव्यादिभ्यस्तत्त्वमस्ति, दृष्टहान्यदृष्टकल्पनासम्भवादिति / प्रत्यक्षमेव चैकं प्रमाणमिति लोकायतमतसमासः // मीमांसकानां पुनरेष मार्गों यदुत-वेदपाठानन्तरं धर्मजिज्ञासा कर्तव्या / यतश्चैवं ततस्तस्य निमित्तपरीक्षा / निमित्तं च चोदना / यत उक्तं--"चोदनालक्षणोऽर्थों धर्मः" / चोदना च क्रियायां प्रवर्तकं वचनमाहुर्यथा--'अग्निहोत्रं जुहुयात्स्वर्गकामः' इत्यादि / तेन धर्मों लक्ष्यते, नान्येन प्रमाणेन, प्रत्यक्षादीनां विद्यमानोपलम्भनत्वादिति / प्रत्यक्षानुमानशब्दोपमानार्थापत्त्यभावाः षट् प्रमाणानि / इति मीमांसकमतसमासः // ___ अमीभिः पुनर्वत्स ! विवेकमहापर्वतारूढरप्रमत्तत्वशिखरस्थितै नपुरनिवासिभि नलोकैरयं दृष्टो निवृतिनगरीगमनमार्गः, यदुत--जीवाजीवास्त्रवबन्धनसंवरनिर्जरामोक्षास्तत्त्वम् / तत्र सुखदुःखज्ञानादिपरिणामलक्षणो जीवः / तद्विपरीतस्त्वजीवः / मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः स आस्नवः / आखवकार्य बन्धः आखवविपरीतः संवरः / संवरफलं निर्जरा / निर्जराफलं मोक्ष इत्येते सप्त पदार्थाः। तथा विधिप्रतिषेधानुष्ठानपदार्थाविरोधश्च / अत्र जैनदर्शने स्वर्गकेवलाथिना तपोध्यानादि कर्तव्यं 'सर्वे जीवा न हन्तव्या' इति वचनात् / 'सततसमितिगुप्तिशुद्धा क्रिया असपत्नो योग' इति वचनात् / उत्पादविगमध्रौव्ययुक्तं सत् / एकं द्रव्यमनन्तपर्यायमर्थ इति / प्रत्यक्षपरोक्षे / एव प्रमाणे इति जैनमतस्य दिग्दर्शनमात्रम् // तत्रैते प्रथमास्तावच्चत्वारो वत्स ! वादिनः / नैयायिकादयो नैव, निर्वृतेर्मार्गवेदकाः // 1 // यतः-एकान्तनित्यमिच्छन्ति, पुरुषं तत्र गामुकम् / सर्वत्रगं च वाञ्छन्ति, तथाऽन्ये क्षणनश्वरम् // 2 // नित्यश्चासौ कथं गच्छेत्तस्यामविचलो यतः / सर्वत्रगश्च यो भद्र ! स क गच्छेत्कुतोऽपि वा ? // 3 // नश्वरोऽपि विनष्टत्वान्न तस्यां गन्तुमर्हति / तस्मादेते न जानन्ति, मार्ग तस्यास्तपस्विनः // 4 // लोकायतास्तु दूरेण, वर्तन्ते वत्स ! निवृतेः / ये हि पापहतात्मानो, निराकुर्वन्ति तामपि // 5 // किं च-लोकायतमतं प्राज्ञेियं पापौघकारणम् / निर्द्वन्द्वानन्दपूर्णाया, निवृतेः प्रतिषेधकम् // 6 // तस्माद्दुष्टाशयकरं, क्लिष्टसत्त्वविचिन्तितम् / पापश्रुतं सदा धीरैर्वयं नास्तिकदर्शनम् // 7 // परमार्थेन सा वत्स ! नेष्टा मीमांसकैरपि / यैः सर्वज्ञ निराकृत्य, वेदप्रामाण्यमीरितम् // 8 // तदेवमेते सर्वेऽपि, भूमिष्ठपुरवासिनः / अनेन कारणेनोक्ता, मिथ्यादर्शनमोहिताः // 9 // एते तु शिखरारूढाः, पुरे वास्तव्यका जनाः। यं वदन्ति स निर्मिथ्यो निवृतेः प्रगुणः पथः॥१०॥ ततश्च-यथावस्थितसन्मार्गवेदिनी वीर्यशालिनाम् / महत्तमो न बाधायै, मिथ्यादर्शननामकः // 11 // ज्ञानश्रद्धानपूतास्ते, निःस्पृहा भवचारके / चारित्रयानमारुह्य, निवृति यान्ति मानवाः // 12 // यथा च सन्मा(त्यो मा)र्गोऽयं, यथा चान्ये न तद्विधाः / इदं च पुरतो वत्स ! यद्यहं ते विचारये // 13 // ततो जन्म ममात्येति, न विचारस्य निष्ठितिः / तेनेदं ते समासेन, प्रविभज्य निवेद्यते // 14 // युग्मम् // ज्ञानदर्शनचारित्रलक्षणो ह्यान्तरो मतः / विद्वद्भिनिवृतेर्मार्गः, प्रगुणः सुपरिस्फुटः // 15 // निर्वृति माग:
Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306