Book Title: Upmitibhav Prapancha Katha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 305
________________ 274 संसारिजीवः प्राह-ततोऽन्यदा दर्शितोऽहं भवचक्रपुरे मनुष्यरूपतया संजाता मे तत्र मध्यमगुणता ततस्तुष्टा ममोपरि भवितव्यता, आविर्भावितस्तया पुनरपि स सहचरो मे पुण्योदयः / ततोऽभिहितमनया--आर्यपुत्र ! गन्तव्यं मनुजगतौ भवता वर्धमानपुरे, स्थातव्यं तत्र यथासुखासिकया, अयं च तवानुचरः पुण्योदयो भविष्यति / मयाऽभिहितं यदाज्ञापयति देवी / ततो जीर्णायां प्राचीनगुटिकायां दत्ता पुनरेकभववेद्या स ममापरा गुटिका भवितव्यतयेति ! भवगहनमनन्तं पर्यटद्भिः कथश्चिनरभवमतिरम्यं प्राप्यं भो भो मनुष्याः ! / निरुपमसुखहेतावादरः संविधेयो, पुनरिह भवद्भिर्मानजिहाऽनृतेषु // 443 // इतरथा बहुदुःखशतैर्हता, मनुजभूमिषु लब्धविडम्बनाः / मदरसानृतगृद्धिपरायणा, ननु भविष्यथ दुर्गतिगामुकाः // 444 // एतभिवेदितमिह प्रकटं मया भो ! मध्यस्थभावमवलम्ब्य विशुद्धचित्ताः / मानानृते रसनया सह संविहाय, तस्माजिनेन्द्रमतलम्पटतां कुरुध्वम् // 445 // इत्युपमितिभवप्रपञ्चायां कथायां मानमृषावादरसनेन्द्रियविपाकवर्णतुरीयः प्रस्तावः समाप्तः // 4 // समाप्तोऽयं चतुःप्रस्तावात्मकः प्रथमो विभागः

Loading...

Page Navigation
1 ... 303 304 305 306