Book Title: Upmitibhav Prapancha Katha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________ 254 यतः-यान्येतानि पुराण्यत्र, दृश्यन्ते वत्स ! भूतले / नान्यत्र देशकालेषु, स्थानकानि बहूनि च // 65 // एतत्तु शिखरस्थायि, सत्पुरं भद्र ! सर्वदा / अप्रच्युतमनुत्पन्न, शाश्वतं परमार्थतः // 66 // प्रकर्षेणोदितं माम ! येऽमीभिः परिकल्पिताः / स्वबुद्धया निवृतेर्मार्गा, लोकैः पुरनिवासिभिः // 6 // तानहं श्रोतुमिच्छामि, प्रत्येकं सकुतूहलः / ततो मेऽनुग्रहं कृत्वा, भवानाख्यातुमर्हति // 68 // विमर्शः प्राह यद्येवं, ततः कृत्वा समाहितम् / चेतस्त्वं वत्स ! बुध्यस्व, मार्गान्वक्ष्ये परिस्फुटम् // 69 // तत्र नैयायिकैस्तावदेष कल्पितो वत्स ! निवृतिमार्गों यदुत प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वपरिज्ञानानिःश्रेयसाधिगमः / तत्रार्थोपलम्भहेतुः प्रमाणं, तचतुर्धा, तद्यथा-प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि / तत्र प्रत्यक्षम्-इन्द्रियार्थसनिकर्पोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षं, तत्पूर्वकं त्रिविधमनुमानं, तद्यथा--पूर्ववच्छेषवत्सामान्यतोदृष्टं च, तत्र पूर्ववत्कारणात्कार्यानुमानं, यथा मेघोन्नते... भविष्यति वृष्टिरिति, शेषवत्कार्यात्कारणानुमानं, यथा विशिष्टान्नदीपूरदर्शनादुपरि वृष्टो देव इति / सामान्यतोदृष्टं नाम यथा देवदत्तादौ गतिपूर्विका देशान्तरप्राप्तिमुपलभ्य दिनकरेऽपि सा गतिपूर्विकैव समधिगम्यते, प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानं, यथा गौस्तथा गवय इति, आप्तोपदेशः शब्द आगम इत्यर्थः तदेवमिदं चतुर्विधं प्रमाणमभिहितम् / तथाऽऽत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम् / किं स्यादित्यनवधारणात्मकः प्रत्ययः संशयः, किमयं स्थाणुः स्यादुत पुरुष इति / येन प्रयुक्तः प्रवर्तते तत्प्रयोजनम् / अविप्रतिपत्तिविषयापन्नो दृष्टान्तः / सिद्धान्तश्चतुर्विधः, तद्यथा-सर्वतन्त्रसिद्धान्तः, प्रतितन्त्रसिद्धान्तः, अधिकरणसिद्धान्तः, अभ्युपगमसिद्धान्तश्चेति / प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः / / संशयादूर्ध्वं भवितव्यताप्रत्ययस्तर्कः, यथा भवितव्यमत्र स्थाणुना पुरुषेण वेति / संशयतर्काभ्यामूज़ निश्चयतः प्रत्ययो निर्णयः, यथा पुरुष एवायं स्थाणुरेव वा / तिस्रः कथाः- वादजल्पवितण्डाः / तत्र शिष्याचार्ययोः "पक्षप्रतिपक्षपरिग्रहेणाभ्यासख्यापनाय वादकथा, विजिगीषुणा साधू छलजातिनिग्रहस्थानसाधनोपालम्भों जल्पः स एव स्वपक्षप्रतिपक्षस्थापनाहीनो वितण्डा / अनैकान्तिकादयो हेत्वाभासाः / नवकम्बलो देवदत्त इत्यादि छलम् / दृषणाभासास्तु जातयः / निग्रहस्थानानि पराजयवस्तूनि, तद्यथा-प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासः हेत्वन्तरं अर्थान्तरं निरर्थकं अविज्ञातार्थमपार्थकं अप्राप्तकालं न्यूनमधिकं पुनरुक्तं अननुभाषणं अप्रतिज्ञानं अप्रतिभा कथाविक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगः अपसिद्धान्तो हेत्वाभासाश्चेति निग्रहस्थानानि / तदेते प्रमाणादयः षोडश पदार्था नैयायिकदर्शनसमासः / / वैशेषिकः पुनरयं वत्स ! परिकल्पितो निर्वृतिनगरीगमनमार्गः, यदुत--द्रव्यगुणकर्मसामान्यविशेषसमवायानां षण्णां पदार्थानां तत्त्वपरिज्ञानाम्निःश्रेयसाधिगमः / स हि निर्वृतिनिःश्रेयसरूपा /

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306