Book Title: Upmitibhav Prapancha Katha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________ एतानि वत्स ! लोकानां, तेषां स्थानानि लक्षय / मिथ्यादर्शनसंज्ञेन, ये वशीकृतचेतसः // 32 // प्रकर्षणोक्तं-माम ! किनामकान्येतानि पुराणि ? किमभिधाना वैतेषु लोकाः प्रतिवसन्ति ? विमर्शेनोक्तं-वत्स ! समाकर्णय एकमत्र पुरे तावन्नैयायिकमितीरितम् / नैयायिकाच गीयन्ते, ते जना येऽत्र संस्थिताः // 33 // अन्यद्वैशेषिकं नाम, पुरमत्राभिधीयते / वैशेषिकाच ते लोका, येऽस्य मध्ये व्यवस्थिताः // 34 // तथाऽपरं जनैः सांख्य, पुरमत्र प्रकाशितम् / सांख्याश्च ते विनिर्दिष्टा, लोका येऽत्र वसन्ति भोः // 35 // इहापरं पुनबौद्धं, पुरमाख्यायते जनैः / प्रसिद्धा बौद्धसंज्ञाश्च, ते जना येऽस्य मध्यगाः // 36 // मीमांसकपुरं नाम, तथाऽन्यत्परिकीर्तितम् / मीमांसकाश्च गीयन्ते, ते लोका येऽत्र संस्थिताः॥३७॥ लोकायतमिति प्रोक्तं, परमत्र तथाऽपरम / बार्हस्पत्याश्च ते लोका. ये वास्तव्याः परेऽत्र भोः॥३८॥ तदेतेषु पुरेपूच्चैर्येऽमी लोकाः प्रकीर्तिताः / ते विशेषेण कुर्वन्ति, मिथ्यादर्शनशासनम् // 39 // यच प्रोक्तं मया पूर्व, सभार्यस्य विजृम्भितम् / तस्य सर्व तदेतेषु, लोकेषु ननु दृश्यते // 40 // प्रकर्षणोक्तं-पडत्र यानि श्रयन्ते, मण्डले लोकवार्तया / दर्शनानि किमेतानि, तान्याख्यातानि मे त्वया // 41 // विमर्शनोदितं वत्स ! कथ्यते ते परिस्फुटम् / एतानि पञ्च तान्येव, मीमांसकपुरं विना // 42 // अर्वाकालिकमेतद्धि, मीमांसक पुरं मतम् / तेन दर्शनसंख्यायामेतल्लोकैन गण्यते // 43 // तथाहि-जैमिनिर्वेदरक्षार्थ, दूषणोद्धारणेच्छया / चकार किल मीमांसां, दृष्ट्वा तीथिकविप्लवम् // 44 // तस्मादेतानि पञ्चैव, मीमांसकपुरं विना / लोकैर्दर्शनसंख्यायां, गण्यन्ते नात्र संशयः // 45 // प्रकर्षः प्राह यद्येवं, ततो ब्रूहि क वर्तते / तत्पुरं माम ! यल्लोकैर्गीयते षष्ठदर्शनम् ? // 46 // विमर्शनाभिहितं-यदिदं दृश्यतेऽौव, विवेकवरपर्वते / निर्मलं शिखरं तुङ्गमप्रमत्तत्वनामकम् // 47 // "विस्तीर्णमिदमत्यर्थमचैव च निवेशितम् / पुरं लोकोत्तरं वत्स ! तज्जैनभिधीयते // 48 // तस्य ते कथयिष्यामि, ये गुणाः शेषजित्वराः। तथापि लोकरूढथैव, षष्ठं हि तदुदाहृतम् // 49 // अन्यच्च तत्र ये लोकास्तेषामेष महत्तमः / न बाधकः प्रकृत्यैव, मिथ्यादर्शननामकः // 50 // प्रकर्षणोक्तं-अधःस्थितेषु बाध्यन्ते, पुरेषु यदमी जनाः। शिखरस्थे न बाध्यन्ते, माम ! किं तत्र कारणम् // 51 // विमर्शनोक्तं-अस्त्यत्र निवृतिलोंके, नगरी सुमनोहरा। सा च भुक्तेरतिक्रान्ता, महामोहादिभूभुजाम् // 52 // निर्द्वन्द्वानन्दसंपूर्णा, सततं निरुपद्रवा / एभिश्चाकर्णिता सर्वैः, सा लोकैः पुरवासिभिः // 53 // ततो लोकायतं मुक्त्वा, ये शेषपुरवासिनः। नगरी गन्तुमिच्छन्ति, तामेते वत्स ! निवृतिम् // 54 // एते च सर्वे तां गन्तुमन्तरङ्गैर्महापथैः / स्वकल्पितैः प्रवाञ्छन्ति, परस्परविरोधिभिः // 55 // ततश्च-अमीभिर्वत्स ! भूरिष्ठेर्ये मार्गाः परिकल्पिताः / निवृतेः प्रापकास्ते हि, न घटन्ते सुयुक्तितः॥५६॥ विवेकपर्वतोत्तुङ्गशिखरस्थितसत्पुरे / वसद्भिर्यः पुनदृष्टः, सन्मार्गोऽतिमनोहरः // 57 // स निवृति नयत्येव, लोकं नास्त्यत्र संशयः / पक्षपातविमुक्तेन, मया तेनेदमुच्यते // 58 // यथाऽमी बाधिता लोका, येऽधःस्थपुरवर्तिनः / मिथ्यादर्शनसंज्ञेन, न गिरिस्थे महापुरे // 59 / / यतः-तन्मिथ्यादर्शनस्यैव, माहात्म्यं स्फुटमुच्यते / यदेते न विजानन्ति, सन्मार्ग निर्वृतेजनाः // 6 // दिङ्मूढा इव मन्यन्ते, कुमार्गमपि तत्त्वतः / सन्मार्ग इति यच्चैते, तत्तस्यैव विजृम्भितम् // 61 // ये त्वेते शिखरे लोका, वर्तन्ते वत्स ! सत्पुरे / एषामेतद् द्वयं नास्ति, तेनेमे तस्य दूरगाः // 62 // एतानि च पुराण्यत्र, प्रत्यासनानि तेन ते / दर्शितानि मया वत्स ! नेयत्ता परिकीर्तिता // 63 // किं तर्हि ?-उपलक्षणमेवानि, विज्ञातव्यानि भावतः। मिथ्यादर्शनवश्यानामन्येषामपि तादृशम् // 6 //
Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306