Book Title: Upmitibhav Prapancha Katha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________ 251 एताश्चैवं विवल्गन्ते, विपक्षक्षयमुच्चकैः / कुर्वाणा भवचक्रेऽत्र, लोकपीडनतत्पराः // 266 // प्रकर्षेणोदितं माम ! किमासां विनिवारकाः / लोकपाला न विद्यन्ते, नगरेऽत्र नृपादयः // 26 // विमर्शेनोदितं वत्स ! नैताः शक्या नृपादिभिः / निवारयितुमित्यत्र, कारणं ते निवेदये // 268 / ये केचिद्वीर्यभूयिष्ठाः, प्रभवो भवनोदरे / तेष्वपि प्रभवन्त्येताः, सर्वेषु प्रसभं मुदा // 269 // सर्वत्र विचरन्तीनामासामुद्दामलीलया / गजानामिव मत्तानां, नास्ति मल्लो जगत्त्रये // 27 // स्वप्रयोजनवीर्येण, विलसन्तीनिरङ्कुशं / को नाम भुवने साक्षादेताः स्खलयितुं क्षमः ? // 271 // प्रकर्षेणोक्तं-माम ! तत्किं पुरुषेण न यतितव्यमेवामूषां निराकरणे ? विमर्शेनोक्तं-वत्स ! निश्चयतो निराकरणे न यतितव्यमेव, यतो न शक्यते एवावश्यंभाविनीनामासां निराकरणं कर्तु, विमृश्यकारी च पुरुषः कथमशक्येऽर्थे प्रवर्तते ? न हि कर्मपरिणामकालपरिणतिस्वभावलोकस्थितिभवितव्यतादिसंपूर्णकारणसामग्रीबलप्रवर्तितानामवश्यमाविर्भवन्तीनाममूषामन्येषां वा कार्यविशेषाणां निराकरणे यतमानः पुरुषः प्रयासादृते कञ्चिदथे पुष्णाति / प्रकर्षः प्राह-माम ! पूर्व भवता प्रत्येकमासां जरारुजादीनामपराण्येवान्तरङ्गबहिरङ्गाणि प्रवर्तकानि निर्दिष्टानि तत्कथमिदानी कर्मपरिणामादीनि प्रवर्तकत्वेनोच्यन्ते ? विमर्शेनोक्तं-तानि विशेषकारणानीतिकृत्वा प्राधान्येनोक्तानि, परमार्थतस्तु यथानिर्दिष्टकर्मपरिणामादिकारणकलापव्यापारमन्तरेण न नयननिमेषोन्मेषमात्रमपि कार्यजातं किञ्चिजगति जायते / प्रकर्षः प्राह-माम ! यद्येवं ततः पुरुषेण किमात्मनो निजवर्गीणस्य वाऽमृरभ्यर्णवर्तिनीरापतन्तीरुपलक्ष्य न कर्तव्य एव कश्चिदासां निवारणोपायः ? किं नान्वेषणीया एव वैद्यौषधमन्त्रतन्त्ररसायनचतुर्विधदण्डनीत्यादयः समुपस्थितजरारुजामृत्यादिनिर्घातनोपायाः ? किं सर्वथा पादप्रसारिकैवात्र श्रेयस्करी ? किमकिश्चित्कर एव पुरुषो हेयोपादेयहानोपादाने ? ननु प्रत्यक्षविरुद्धमिदं, यतः प्रवर्तन्त एव पुरुषा हिताहितयोरवाप्तिनिराकरणकामतया, प्रवृत्ताश्थोपायेन प्राप्नुवन्ति हितमर्थ, निराकुर्वन्ति चोपस्थितमप्युपायत एवाहितमिति / विमर्शेनोक्तं-वत्स ! विश्रब्धो भव मोत्तालतां यासीः, परामृश वचनैदम्पर्य, निश्चयतो हि मयोक्तं यथा—मा प्रवर्तिष्ट पुरुषः, व्यवहारतस्तु तत्प्रवृत्ति को वारयति ? पुरुषेण हि सर्वत्र पुरुषापराधमलः सदनुष्ठाननिर्मलजलेन क्षालनीयः, तदर्थ हि तत्प्रवृत्तिः, यतो नाकलयत्यसौ तदा भाविकार्यपरिणाम, ततो व्यवहारतः सर्वहेयोपादेयहानोपादानसाधनं समाचरत्येव / किं च--चिन्तितं चानेन यदुताहं न प्रवर्ते तथाप्यसावप्रवर्तमानो नासितु लभते, यतः कर्मपरिणामादिकारणसामग्या वेतालाविष्ट इव हठात्प्रवर्तत एव, न चाकिश्चित्करः पुरुषः, किं तर्हि ? स एव प्रधानः तदुपकरणत्वाकर्मपरिणामादीनां, न च पादप्रसारिता श्रेयस्करी, व्यवहारतः पुरुषप्रवृत्तेहिताहितनिर्वतनापवर्तनक्षमत्वाद, निश्चयतस्तु निःशेषकारणकलापपरिणामसाध्यत्वात् कार्याणां, अन्यथा पूर्वमाकलिते पुरुषेण वैपरीत्येन तु परिणते पश्चात्प्रयोजने न विधेयौ हर्षविषादौ समालम्बनीयो निश्चयाभिप्रायो यथेत्थमेवानेन विधातव्यमितिभावनया विधेयो मध्यस्थभावः, न चैतच्चिन्तनीय-यद्येवमहमकरिष्यं ततो नेत्थमभविष्यदिति, यतस्तथाऽवश्यंभाविनः कार्यस्य कुतोऽन्यथाकरणं ? नियता हि निश्चयाकूतेन नियतकारणसामग्रीजन्या च सकलकालं तथैवानन्तकेवलिज्ञानगोचरीभूता च समस्ताऽपि जगति बहिरङ्गान्तरङ्गकार्यपर्यायमाला, सा यया परिपाटया व्यवस्थिता यैश्च कारणैराविर्भावनीया तयैव परिपाटया तान्येव च कारणान्यासाद्याविर्भवति, कुतस्तस्यामन्यथाभावः ? अतोऽतीतचिन्ता मोहविलसितमेव / व्यवहारतोऽपि हितावाप्तयेऽहितनिषेधाय च प्रवर्तमानेन पुरुषेण सुपर्यालोचितकारिणा नानैकान्तिकानात्यन्तिके तत्साधने भेषजमन्त्रतन्त्ररसा
Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306