Book Title: Upmitibhav Prapancha Katha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________ 266 ततश्च-असंख्यातजनं वत्स ! पूरितं भूरिभूमिपैः / निःशेषमिदमास्थानं, को हि वर्णयितुं क्षमः // 268 ततो मयेदं ते वत्स !, समासेन निवेदितम् / गच्छावः साम्प्रतं द्वारे, यदि पूर्ण कुतूहलम् // 269 // चारित्रन पसैन्य एवं भवतु तेनोक्ते, विनिर्गत्य विलोकितम् / चतुरङ्गं बलं ताभ्यां, तदीयं तच्च कीदृशम् // 27 // गाम्भीर्यौदार्यशौर्यादिनामभिः स्यन्दनैः सदा / प्रेङ्खघणघणारावपूरिताशेषदिक्पथम् // 271 // यशःसौष्ठवसौजन्यप्रश्रयादिमहागजैः। विलसत्कण्ठनिर्घोषसंरुद्धभुवनोदरम् // 272 // बुद्धिपाटववाग्ग्मित्वनैपुण्यादितुरङ्गमैः / महाहेषारवापूर्णसत्प्रजाकर्णकोटरम् // 273 // अचापलमनस्वित्वदाक्षिण्यादिपदातिभिः / अलब्धगाधविस्तीर्णस्तिमितोदधिविभ्रमम् ॥२७४॥चतुर्भिः कलापकम्। ततश्चैवंविधं वीक्ष्य, चतुरङ्गं महाबलम् / प्रकर्षश्चेतसा तुष्टः, प्रोवाच निजमातुलम् // 275 // यथेष्टमधुना माम ! पूरितं मे कुतूहलम् / यदत्र किश्चिद्रष्टव्यं, तत्सर्व दर्शितं त्वया // 276 // तथाहि-दर्शितं भवचक्रं मे, नानावृत्तान्तसङ्कलम् / महामोहादिवीर्य च, कारणैरपरापरैः // 277 // विवेकपर्वतश्चाय, दर्शितो मे मनोहरः। निवेदितं च सल्लोकः, पूर्ण सात्त्विकमानसम् // 278 // शिखरं चाप्रमत्तत्वं, जैनं चेदं महापुरम् / युक्तं महात्मभिर्लोकर्दर्शितं मम सुन्दरम् // 279 // तथा चित्तसमाधानो, मण्डपो वेदिका च मे / त्वया निःस्पृहताऽऽख्याता, जीववीर्य च विष्टरम् // 280 // वर्णितश्च महाराजः, साक्षात्करणपूर्वकम् / प्रत्येकं वर्णिताः सर्ग, भूपालास्तस्य सेवकाः // 28 // इदं च दर्शितं रम्यं, चतुरङ्गं महाबलम् / एवं च कुर्वता माम !, नास्ति तद्यन्न मे कृतम् // 282 // जनितः पूतपापोऽहं, कृतो बृहदनुग्रहः / कृपापरीतचित्तेन, पूरिता मे मनोरथाः // 283 // तथापि रमणीयेऽत्र, वस्तुमिच्छामि साम्प्रतम् / दिनानि कतिचिन्माम ! लीलया जैनसत्पुरे // 28 // किं च-स्थितो मासद्वयं यावत् , सद्विचारपरायणः / पुरे तथा तथा प्राज्ञो, जायेऽहं त्वत्प्रसादतः // 285 // अहं च परमां काष्ठां, नेयो मामेन सर्वथा / अतो जैनपुरे तावदत्र त्वं वस्तुमर्हसि // 286 // ततस्तन्मातुलेनोक्तं, या तवेच्छा प्रवर्तते / तामेष त्वत्सुखाकाङ्क्षी, कि भनक्ति वशो जनः ? // 287 // ... महाप्रसाद इत्युक्त्त्वा, ततस्तत्रैव सत्पुरे / स्थितो मासद्वयं यावत्स प्रकर्षः समातुलः // 288 // ग्रीष्मवर्णन इतश्च मानवावासे, वसन्तो लवितस्तदा / आदेशेन महादेव्याः, प्राप्तो ग्रीष्मः सुदारुणः // 289 // यत्र ग्रीष्मे-जगत्कोष्ठकमध्यस्थो, लोहगोलकसन्निभः / ध्मायते चण्डवातेन, जगद्दाहकरो रविः // 290 // जायते पत्रशाटस्तरूणामलं हीयते देहिनां यत्र देहे बलं, पीयते प्राणिभिभूरिधाराजलं शुष्यते चास्यमेषां तृषाऽत्यर्गलम् / दह्यते तीव्रतापेन, सर्वो जनः खिद्यते स्वेदनिनेंदितं तन्मनो, वान्ति वाताः सतप्ताजगत्तापिनः शुष्कपत्रावलीमर्मराराविणः अपि च-भानोरिव प्रतापेन, संतुष्टं वर्धितं दिनम् / स्वामिनोऽभ्युदये सर्वः, सन्तोषादभिवर्धते // 292 // यत्र च विदलिता मल्लिकाः विकसिता जात्यपाटलाः श्यामलितं कुसुमभरेण शिरीषवनं, सुभगीभूताश्चन्द्रकिरणाः, हृदयदयिता जलाशयाः, मनोऽभिरुचिता मौक्तिकहारयष्टयः, अतिवल्लभानि विमलहर्म्यतलानि, प्रियतमानि चन्दनविलेपनानि, अमृतायन्ते तालवृन्तव्यजनकानि, सुखायन्ते शिशिरकिसलयकुसुमखस्तराः, लगन्ति बहिशरीरनिहिता अपि जनानामन्तर्मानसे चन्दनजलार्दा इति / ततश्चैवंविधे काले, भागिनेयमभाषत / गच्छावः साम्प्रतं वत्स ! स्वस्थानमिति मातुलः // 293 // प्रकर्षः प्राह गमने, दारुणोऽवसरोऽधुना / तन्नाहं माम ! शक्नोमि, गन्तुमेवंविधेऽध्वनि // 294 // ततो मासद्वयं तिष्ठ, माम ! सन्तापदारुणम् / येनाहं शीतलीभूते, दिक्चक्रे यामि सत्वरम् // 295 // किं च-विचारपरयोः स्थानमावयोर्गुणकारणम् / अत्र जैनपुरे माम ! मासंस्था निष्प्रयोजनम् // 296 //
Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306