Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04 Author(s): Shubhankarsuri, Dharmkirtivijay Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad View full book textPage 3
________________ प्रकाशकीय निवेदन किञ्चित् प्रास्ताविकम् कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यनी नवमी जन्मशताब्दी (वि.सं. ११४५-२०४५)ना मंगल अवसरे पूज्य आचार्य श्रीविजयसूर्योदयसूरीश्वरजी तथा पूज्य आचार्यश्रीविजयशीलचन्द्रसूरीश्वरजीनी शुभप्रेरणाथी अमारा आ ट्रस्टनी स्थापना थई हती. प्राचीन ग्रन्थोनुं संशोधन-सम्पादनपूर्वक प्रकाशन, अनेक विद्वज्जनोनुं सन्मान, 'अनुसंधान'नामनी शोधपत्रिकानुं प्रकाशन-इत्यादि साहित्यिक प्रवृत्तिओ आ ट्रस्टनो मुख्य उद्देश छे. ते अनुसार कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यनी नवमी सूरिपद शताब्दी (वि.सं. ११६६-२०६६)ना उपलक्ष्यमां तेओना द्वारा विरचित त्रिषष्टिशलाकापुरुषचरितनो पूज्य आ.श्रीविजयशुभंकरसूरिजी रचित गद्यात्मकसारोद्धार प्रगट करतां अमो आनन्द अनुभवीए छीए. आ गद्यात्मकसारोद्धारनी रचना पूज्य आ.श्रीविजयशुभंकरसूरिजीए पूर्वे वि.सं. २०१६ना वर्षे करी हती. आजे ५० वर्ष पछी पूज्य श्री विजयसूर्योदयसूरीश्वरजीना शिष्य मुनिश्रीधर्मकीर्तिविजयजी द्वारा पुनः सम्पादित-संशोधित करेल आ ग्रन्थना प्रकाशननो लाभ अमारा ट्रस्टने मल्यो, ते बदल अमो तेओना ऋणी छीए. सुविदितमेवेदं विदुषां यत् कलिकालसर्वज्ञेतिबिरुदधारिणा परमविदुषा जैनाचार्येण श्रीमता हेमचन्द्राचार्येण भगवता गूर्जरनरेशद्वयं सिद्धराजजयसिंहकुमारपालचौलुक्येति संज्ञं प्रतिबोधितं; गूर्जरराष्ट्रे सुविशालेऽमारिः प्रवर्तिता; अनेकशतसङ्ख्या जिनालया निर्मापिताः; सोमनाथमहादेवाभिधशिवतीर्थस्योद्धारकार्ये राजा प्रेरितस्तत्तीर्थपुनःस्थापनावसरे स्वयमुपस्थितं च । युगप्रभावकेनाऽनेन सूरिपादेन सर्वजनताया हितकराणि मुक-पशूनामभयदानि जैनधर्मस्योद्योतकारीणि च नैकानि महान्ति कार्याणि यथा कृतानि, तथैव तेन भगवता नानाविधशास्त्रनिर्माणकार्यमपि विद्वश्चेतश्चमत्कृतिकारकं विहितमेव । तद्विरचितेषु ग्रन्थेषु सिद्धहेमचन्द्राभिधं शब्दानुशासनं, काव्यानुशासनं, छन्दोनुशासनं, लिङ्गानुशासनं, वादानुशासनं, शब्दकोषद्वयं, संस्कृतव्याश्रयमहाकाव्यं प्राकृतव्याश्रयकाव्यं, स्तुतिकाव्यानि, योगशास्त्रम्-इत्यादयो ग्रन्थाः प्रमुखाः प्रसिद्धाश्च विद्याक्षेत्रे । तद्विरचित एको महान् ग्रन्थोऽयमप्यस्ति-त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । प्रायः ३६००० श्लोकमितो ग्रन्थोऽयं जैनपुराणप्रबन्धसन्निभो महाकाव्यलक्षणोपेतश्च । ग्रन्थेऽत्र जैनधर्मस्वीकृततीर्थङ्कर-चक्रवर्ति-वासुदेवबलदेव-नारदादीनां शलाकापुरुषाणां चरितवर्णनं विशदं विहितमस्ति । जैनसंघे एतदध्ययनाध्यापनप्रचारोऽविरतं बहुशतवर्षेभ्यः प्रचलति । संस्कृताध्ययनकर्तृणां विद्यार्थिनां बोधवेशद्यार्थमेतस्य काव्यग्रन्थस्याऽध्ययनं नितरामावश्यकम् । जैनसिद्धान्तानां सुखबोधार्थ जैनेतिहासस्य च ज्ञानार्थमप्येतदध्ययनमतीवोपयोगि । परन्तु महाकाव्यस्याऽस्याऽध्ययने सर्वे जना न समर्था भवेयुः । मन्दबोधानां सारल्योत्सुकानां चाऽभ्यासिनामेतस्याऽध्ययनं बहुधा दुरूहमपि स्यादेव । एतादृग्जनान् मनसि निधाय आचार्यपादश्रीविजयशुभरसूरिवर्येण ग्रन्थस्यैतस्य सरलीकरणाय तदर्थं चाऽस्य वि. सं. २०६७ लि. कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्य नवमजन्मशताब्दीस्मृतिशिक्षणसंस्कारनिधिः अमदावाद.Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 129