Book Title: Tattvarthadhigam Sutram Part 07
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 224
________________ २०० શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ સૂત્ર-૨૦ भाष्यं- बसस्थावराणां जीवानां बन्धवधौ, त्वक्छेदः काष्ठादीनां, पुरुषहस्त्यश्वगोमहिषादीनां चातिभारारोपणं, तेषामेव चानपाननिरोधः, अहिंसाव्रतस्यातिचारा भवन्ति ॥७-२०॥ ત્ર-સ્થાવર જીવોનો બંધ અને વધ, કાષ્ઠ આદિનો ત્વપૂછેદ, પુરુષહાથી–અશ્વ-ગાય-ભેંસ આદિની ઉપર અતિભારારોપણ અને તેમને જ भन्न-पाननो निरो५ ४२वो मे मसितना मतियारी छ. (७-२०) टीका- तत्र बन्धनं बन्धः-संयमनं रज्जुदामनकादिभिः, हननं वधस्ताडनं कसादिभिः, छवि:-शरीरं त्वक् वा तच्छेदः-पाटनं द्विधाकरणं भारः-भरणं अतीव बाढं सुष्ठ भारोऽतिभारः तस्यारोपणं स्कन्धपृष्ठादिषु स्थापनमतिभारारोपणं, अन्नम्-अशनादि पानं पेयमुदकादि तयोरदानं निरोधः, सर्व एव कृतद्वन्द्वा निर्दिष्टाः स्थूलप्राणातिपातविरतेरतिचाराः, त्रसस्थावराणामित्यादि भाष्यं, त्रस्यन्तीति त्रसा:द्वित्रिचतुःपञ्चेन्द्रियाः, तिष्ठन्तीति स्थावरा:-स्थानशीला वृक्षादयो यथासम्भवमायोज्याः, द्रव्यभावप्राणैरजीवन् जीवन्ति जीविष्यन्ति चेति जीवाः तेषां त्रसस्थावराणां जीवानां, बन्धवधौ, तत्र बन्धः शङ्खपिपीलिकातिडकादीनामपि सम्भवति स च प्रायो निष्प्रयोजन इति नानुष्ठेयोऽणुव्रतिना, उत्सर्गतो गृहिणा तादृशान्येव द्विपदचतुष्पदादीनि परिग्राह्याणि यान्यबद्धान्येवासते, असम्भवात्तादृशानामन्यत्र बन्धः सप्रयोजनः, सोऽपि सापेक्षो, दयावता नातिगाढगूढग्रन्थिः कार्यो दुर्विनीतपुत्रकदासीदाससेवकादीनां गोमहिषीतुरङ्गादीनां वा, वधोऽप्येवमेव, समुत्पन्नप्रयोजनस्तु सापेक्षो निर्दयप्रहारान् परिहरन् कसादिभिर्वयोऽपेक्षया कर्णवलनचपेटादिभिश्च साधयेत्, तथा निष्प्रयोजनश्छविच्छेदः परिहार्य एव, तदाह-'त्वक्छेदः काष्ठादीना'मिति । काष्ठशब्देन वृक्षपरिग्रहः आदिग्रहणात् भूमितेजःकरकद्विपदचतुष्पदपरिग्रहः, सप्रयोजनस्तु सापेक्षः, कर्णपाटनादिरङ्गलिश्रवणनासिकाछेदो

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280