Book Title: Tattvarthadhigam Sutram Part 07
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text
________________
૨૩૮
श्री तत्वाषिरामसूत्र अध्याय-७ -- સૂત્ર-૩૨ સૂત્રાર્થ– જીવિતાસંસા, મરતાશંસા, મિત્રાનુરાગ, સુખાનુબંધ અને નિદાનકરણ આ પ્રમાણે આ પાંચ મારણાંતિક સંલેખનાના અતિચારો છે. (७-३२)
भाष्यं- जीविताशंसा, मरणाशंसा, मित्रानुरागः, सुखानुबन्धो, निदानकरणमित्येते मारणान्तिकसंलेखनायाः पञ्चातिचारा भवन्ति ।
तदेतेषु सम्यक्त्वव्रतशीलव्यतिक्रमस्थानेषु पञ्चषष्टिष्वतिचारस्थानेषु अप्रमादो न्याय इति ॥७-३२॥
ભાષ્યાર્થ-જીવિતઆશંસા, મરણઆશંસા, મિત્રાનુરાગ, સુખાનુબંધ અને નિદાનકરણ આ પાંચ સંલેખનાના અતિચારો છે.
તેથી આ સમ્યક્ત્વવ્રત-શીલનું ઉલ્લંઘન કરવાના સ્થાન એવા પાંસઠ मतियारस्थानोमा मप्रभाह योग्य छे. (७-3२)
टीका- आशंसाशब्दं जीवितमरणाभ्यां सहाभिसम्बध्नन्नाहजीवितासंशेत्यादि, संलेखनाया:-अन्ते प्रतिपन्नप्रत्याख्यानस्यामी भवन्त्यतिचाराः, जीवितं-प्राणधारणं तत्राशंसा-अभिलाषो, यदि बहुकालं जीवेयमिति, वस्त्रमाल्यपुस्तकवाचनादिपूजादर्शनात् लोकश्लाघाश्रवणाच्चैवं मन्यते-जीवितमेव मे श्रेयः प्रत्याख्यातानशनस्यापि यत एवंविधा मदुद्देशेनेयं विभूतिर्वर्तत इति, मरणाशंसा त्वेतद्विपरीता, न कश्चित्तं प्रतिपन्नानशनं गवेषयति, न सपर्यति, न चाद्रियते, न कश्चित् श्लाघते, ततस्तस्यैवंविधः चित्ते परिणामो जायते-यदि शीघ्रं म्रियेयाहमपुण्यकर्मेति मरणाशंसा, मित्रानुराग इति, मेद्यन्तीति मित्राणि, स्नेहमत्यर्थं कुर्वन्ति सहजीवितमरणानि तेषु मित्रेष्वनुरागः-स्नेहो यस्तं तादृश्यामप्यवस्थायां न जहातीति मित्रानुरागोऽतिचारः, तथा पुत्रादिष्वपि योज्यं, मित्रस्योपकारमकृत्वा पुत्रादीन् वा स्थानेष्वनवस्थाप्य यदि न म्रियेयेति, सर्वसङ्गत्यागस्तस्यामवस्थायां कार्य इत्युपदेशः, सुखानुबन्ध इति, अनुभूतप्रीतिविशेषस्मृतिसमन्वाहरणं चेतसि सुखानुबन्धः ।