Book Title: Tattvarthadhigam Sutram Part 07
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 266
________________ સૂત્ર-૩૩ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ पुष्पबलिधूपचामरातपत्रकलशध्वजचन्द्रातपककिरीटाभरणादिः साधर्मिकास्तु द्विप्रकारा:- साधवः श्रावकाश्च साधवो यथोक्तज्ञानदर्शनक्रियानुष्ठानसम्पन्नाः, श्रावकाश्च सम्यक्त्वाणुव्रतादिद्वादशविधधर्मभाजस्तेभ्यो दानमन्नादेर्देशकालोपपन्नमिति, एवंविधसूत्रार्थप्रतिपादनाय आत्मपरानुग्रहार्थमित्यादिभाष्यम् । अनेन च भाष्येण विशुद्धबुद्धिमत्त्वं दातुराख्यायते, श्रद्धादिगुणयोगः उपायः प्रतिग्रहीता पात्रविशेषः देयं सम्पच्चीत, आत्मा च परश्चात्मपरौ तयोरनुग्रहः आत्मपरानुग्रहः सोऽर्थो यस्य तदात्मपरानुग्रहार्थम्, अनुग्रहः उपकारः, स च विशुद्धया धिया ददतः कर्मनिर्जरणादिफल: समस्तीत्यनुग्रहग्रहणाद्विशुद्धबुद्धित्वं लभ्यते, अन्यथा अनुग्रहाभास एव स्यात्, तच्च निर्जरादिफलमुपायादृते न सम्पद्यत इत्युपायपरिग्रहः, देशकालपुरुषावस्था: संप्रेक्ष्यागमानुसारिणा सता प्रमोदनिर्भरेण चेतसा रोमाञ्चकञ्चुकोपगूढवपुषा चाभ्युत्थानासनप्रदानवन्दनचरणप्रमार्जनसत्कारपूर्वकं समाधायैकाग्र्यमित्यादिरुपायः, आत्मेति दाता, श्रद्धाशक्तिसत्त्वक्षमाविनयवितृष्णतागुणसम्पन्नो ददामीत्येवम्परिणतः, परपदोपादानात् प्रतिग्रहीता ज्ञानक्रियान्वितो विजितेन्द्रियकषायः स्वाध्यायतपोध्यानसमाधिभाग् मूलोत्तरगुणसम्पदुपेतः पात्रमिष्यते, स्वस्य द्रव्यजातस्यान्नपानवस्त्रादेरित्यनेन देयनिर्देशः, स्वस्येत्यात्मीयस्य लोकविरुद्धचौर्यव्यवहाराद्यनुपात्तस्य द्रव्यजातस्येति द्रव्यविशेषस्य पुद्गलद्रव्यस्य जीवद्रव्यस्य च, पुद्गलद्रव्यस्यापि न सर्वस्य कुठारहलदात्रशस्त्रादेरनेकप्राणिदुःखहेतोः, किं तर्हि ?, अन्नपानवस्त्रादेः पुद्गलद्रव्यस्य, आदिग्रहणादौघिकौपग्रहिकसकलोपकरणपरिग्रहः, सर्वश्चाहारो भैषजवसत्युपधिर्वा साधोः परत एव लभ्यो भवत्युद्गमोत्पादनैषणाशुद्धः स च दातुः प्रतिग्रहीतुश्चोपकारको निर्जराफलत्वात्, जीवद्रव्यस्यापि न सर्वस्य, दासदासीबलीवर्द्दवाहनादेः स्वयमेव दुःखितत्वात् क्लिश्यमानत्वात्, यथाह ૨૪૨

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280