Book Title: Tattvarthadhigam Sutram Part 07
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 235
________________ સૂત્ર-૨૨ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ ૨૧૧ तैराहृतम् - आनीतं कनकवस्त्रादि तस्यादानं ग्रहणं मूल्येन मुधिकया वा, विरुद्धराज्यातिक्रम इति, विरुद्धयोर्नृपयो राज्यं तस्यातिक्रमं - अतिलङ्घनं आक्रमणं विरुद्धराज्यातिक्रमः, स चानेकप्रत्यपायः, हीनाधिकमानोन्मानमिति, हीनं- न्यूनं अधिकम् - अतिरिक्तं मानोन्मानं मानं कुडवादि उन्मानं च-तुलादि, हीनं मानोन्मानमन्यदानकाले करोति, स्वयं पुनः गृह्णन्नधिकं करोति, प्रतिरूपकव्यवहारः प्रतिरूपकः- तत्सदृशः तस्य विविधं अवहरणं व्यवहारः - प्रक्षेपः यद् यत्र घटते व्रीह्यादिषु तैलादिषु पलञ्ज्यादि तत्तत्र प्रक्षिप्य विक्रीणीत इति । सम्प्रति भाष्यमनुश्रियते-एत इत्यादि गतार्थं, तत्रेत्यादि, तत्र तेषु अतिचारेषु स्तेनप्रयोगस्तावदयं - स्तेनेषु तस्करेषु सम्भवति हिरण्याद्यर्थः प्रयोगो हिरण्यादिप्रयोगः, हिरण्यं रजतं घटिताघटितरूपमादिशब्दात् कनकं च, घर्घरादिभिर्ग्रन्थि छित्त्वा गृह्णातीति तथा क्षत्रखननकाद्येवंविधमुपकरणं नाणुव्रतिना निर्वर्त्तनीयं न विक्रेयमिति, स्तेनैरित्यादि तस्करोपनीतस्य द्रव्यस्य रजतादेर्मुधा - विना मूल्येन क्रयेण वा स्वल्पप्रदानेन ग्रहणं, तदाहृतादानमनेकप्रत्यपायमिति परिहार्यं, विरुद्धेत्यादि, विरुद्धराज्यातिक्रमः अतिक्रमो - व्यवस्थोल्लङ्घनं, व्यवस्था च परस्परविरुद्धराज्यकृतैव चशब्दः समुच्चायकः, एष वा स्तेनव्रतस्यातिचारः, विरुद्धे हीत्यादि यस्माद्विरुद्धे राज्ये सर्वमादानंग्रहणं तृणकाष्ठादेरपि स्तेययुक्तं चौरतया सम्बन्धं भवति, तस्माद्विरुद्धराज्यातिक्रमो न कार्यः, हीनाधिकेत्यादि, समस्यातिचारद्वयं निर्दिष्टं भाष्यकारेण व्यवहारसम्बन्धनार्थं, हीनमानव्यवहारोऽधिकमानव्यवहारः हीनोन्मानव्यवहारोऽधिकोन्मानव्यवहारश्चेति एतदेव विवृणोति-कूटतुलेत्यादिना प्रसिद्धटङ्कादिटङ्किता अकूटतुला ततोऽपरा कूटतुला, एवं मानमपि, आभ्यामपि कूटतुलाकूटमानाभ्यां वञ्चनं-दम्भनं छलनमादिशब्दाद्वचनकायक्रियाग्रहणं तैर्युक्तः सम्बद्धः क्रयो- ग्रहणं

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280