________________
સૂત્ર-૨૨
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
૨૧૧
तैराहृतम् - आनीतं कनकवस्त्रादि तस्यादानं ग्रहणं मूल्येन मुधिकया वा, विरुद्धराज्यातिक्रम इति, विरुद्धयोर्नृपयो राज्यं तस्यातिक्रमं - अतिलङ्घनं आक्रमणं विरुद्धराज्यातिक्रमः, स चानेकप्रत्यपायः, हीनाधिकमानोन्मानमिति, हीनं- न्यूनं अधिकम् - अतिरिक्तं मानोन्मानं मानं कुडवादि उन्मानं च-तुलादि, हीनं मानोन्मानमन्यदानकाले करोति, स्वयं पुनः गृह्णन्नधिकं करोति, प्रतिरूपकव्यवहारः प्रतिरूपकः- तत्सदृशः तस्य विविधं अवहरणं व्यवहारः - प्रक्षेपः यद् यत्र घटते व्रीह्यादिषु तैलादिषु पलञ्ज्यादि तत्तत्र प्रक्षिप्य विक्रीणीत इति ।
सम्प्रति भाष्यमनुश्रियते-एत इत्यादि गतार्थं, तत्रेत्यादि, तत्र तेषु अतिचारेषु स्तेनप्रयोगस्तावदयं - स्तेनेषु तस्करेषु सम्भवति हिरण्याद्यर्थः प्रयोगो हिरण्यादिप्रयोगः, हिरण्यं रजतं घटिताघटितरूपमादिशब्दात् कनकं च, घर्घरादिभिर्ग्रन्थि छित्त्वा गृह्णातीति तथा क्षत्रखननकाद्येवंविधमुपकरणं नाणुव्रतिना निर्वर्त्तनीयं न विक्रेयमिति, स्तेनैरित्यादि तस्करोपनीतस्य द्रव्यस्य रजतादेर्मुधा - विना मूल्येन क्रयेण वा स्वल्पप्रदानेन ग्रहणं, तदाहृतादानमनेकप्रत्यपायमिति परिहार्यं, विरुद्धेत्यादि, विरुद्धराज्यातिक्रमः अतिक्रमो - व्यवस्थोल्लङ्घनं, व्यवस्था च परस्परविरुद्धराज्यकृतैव चशब्दः समुच्चायकः, एष वा स्तेनव्रतस्यातिचारः, विरुद्धे हीत्यादि यस्माद्विरुद्धे राज्ये सर्वमादानंग्रहणं तृणकाष्ठादेरपि स्तेययुक्तं चौरतया सम्बन्धं भवति, तस्माद्विरुद्धराज्यातिक्रमो न कार्यः, हीनाधिकेत्यादि, समस्यातिचारद्वयं निर्दिष्टं भाष्यकारेण व्यवहारसम्बन्धनार्थं, हीनमानव्यवहारोऽधिकमानव्यवहारः हीनोन्मानव्यवहारोऽधिकोन्मानव्यवहारश्चेति एतदेव विवृणोति-कूटतुलेत्यादिना प्रसिद्धटङ्कादिटङ्किता अकूटतुला ततोऽपरा कूटतुला, एवं मानमपि, आभ्यामपि कूटतुलाकूटमानाभ्यां वञ्चनं-दम्भनं छलनमादिशब्दाद्वचनकायक्रियाग्रहणं तैर्युक्तः सम्बद्धः क्रयो- ग्रहणं