Book Title: Tattvarthadhigam Sutram Part 07
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 229
________________ ૨૦૫ સૂત્ર-૨૧ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭, पीडाजननं, वाह्यन्तां खरोष्ट्राः हन्यन्तां दस्यव इति, न यथार्थ यथावस्थितः अयथावस्थितः तस्यार्थं अयथार्थं तस्य वचनम्-उपदेशः यथा अर्थः स्थितस्तया वचनोपदेशः साधुः, तद्विपरीतस्त्वयथार्थवचनोपदेशः । यथा परेण पृष्टः सन्देहापन्नेन अतथोपदेशः, विवादेष्वित्यादि विवादः-कलहः तत्रान्यतरस्यातिसन्धानोपायमुपदिशति, अतिसन्धानं छलनमादिशब्दाद् द्यूतग्रहणं, एवमादिरेवंप्रकारः सर्व एव मिथ्योपदेशोऽवसेयः । रहस्येत्यादि, रहस्येनाभ्याख्यानं स्त्रीपुंसयोः परस्परेणेति प्रतारणाद्वारेण, यदि वृद्धा स्त्री ततस्तस्यै कथयति-अयं तव भर्ता कुमार्यामतिसक्तः, अथ तरुणी तत एवमाह-अयं ते भर्ती प्रौढचेष्टितायां मध्यमवयसि योषिति प्रसक्तः, तथाऽयं खरकामः मृदुकाम इति वा परिहसति, तथा स्त्रियमभ्याख्याति भर्तुः पुरः पत्नी ते गर्हयत्येवमयं मां रहसि कामगर्दभः खली करोतीत्यादि । अन्यस्य वेति, दम्पतीव्यतिरिक्तस्य वैकैकस्य पुंसः स्त्रियो वा तत्कालयोग्यं रागसंयुक्तमिति दम्पत्योरन्यस्य वा येन रागः प्रहर्ष उत्पद्यते तेन तादृशा रहस्येनानेकप्रकारेण कर्मणाऽभिशंसनमिति, हास्येत्यादि अभ्याख्यातापि परिहासक्रीडानुबन्धात् तादृशं भाषते, नाभिनिवेशेन, हास्य-परिहासः सैव क्रीडा आसक्तिः-आसङ्गोऽनुबन्धः, आदिशब्दः प्रकारवचनः, हास्यक्रीडाप्रकारैः, अथवा हास्यप्रकारैः क्रीडाप्रकारैर्वेति पृथगभिसम्बन्धः । कूटलेखक्रिया लोकप्रतीतेति अत्यन्तप्रसिद्धा सुज्ञाना । मुद्राक्षरादिविन्यासः कूटलेखतुल्य इति, न्यासापहार इत्यादि गोपायनाय स्वद्रव्यार्पणमन्यस्य स न्यासः तस्यापहारः-अपलापः सुश्लिष्टवचनेन, तथा विस्मरणकृतपरनिक्षेपग्रहणं, विस्मरणेन कृतं (? कृतस्य) परनिक्षेपस्य ग्रहणं, येन निक्षिप्तानि पञ्च शतानि, तस्य पञ्चशतसङ्ख्या विस्मृता, स चाधुना निक्षेपकमार्गणकाले

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280