________________
૨૦૫
સૂત્ર-૨૧
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭, पीडाजननं, वाह्यन्तां खरोष्ट्राः हन्यन्तां दस्यव इति, न यथार्थ यथावस्थितः अयथावस्थितः तस्यार्थं अयथार्थं तस्य वचनम्-उपदेशः यथा अर्थः स्थितस्तया वचनोपदेशः साधुः, तद्विपरीतस्त्वयथार्थवचनोपदेशः । यथा परेण पृष्टः सन्देहापन्नेन अतथोपदेशः, विवादेष्वित्यादि विवादः-कलहः तत्रान्यतरस्यातिसन्धानोपायमुपदिशति, अतिसन्धानं छलनमादिशब्दाद् द्यूतग्रहणं, एवमादिरेवंप्रकारः सर्व एव मिथ्योपदेशोऽवसेयः ।
रहस्येत्यादि, रहस्येनाभ्याख्यानं स्त्रीपुंसयोः परस्परेणेति प्रतारणाद्वारेण, यदि वृद्धा स्त्री ततस्तस्यै कथयति-अयं तव भर्ता कुमार्यामतिसक्तः, अथ तरुणी तत एवमाह-अयं ते भर्ती प्रौढचेष्टितायां मध्यमवयसि योषिति प्रसक्तः, तथाऽयं खरकामः मृदुकाम इति वा परिहसति, तथा स्त्रियमभ्याख्याति भर्तुः पुरः पत्नी ते गर्हयत्येवमयं मां रहसि कामगर्दभः खली करोतीत्यादि । अन्यस्य वेति, दम्पतीव्यतिरिक्तस्य वैकैकस्य पुंसः स्त्रियो वा तत्कालयोग्यं रागसंयुक्तमिति दम्पत्योरन्यस्य वा येन रागः प्रहर्ष उत्पद्यते तेन तादृशा रहस्येनानेकप्रकारेण कर्मणाऽभिशंसनमिति, हास्येत्यादि अभ्याख्यातापि परिहासक्रीडानुबन्धात् तादृशं भाषते, नाभिनिवेशेन, हास्य-परिहासः सैव क्रीडा आसक्तिः-आसङ्गोऽनुबन्धः, आदिशब्दः प्रकारवचनः, हास्यक्रीडाप्रकारैः, अथवा हास्यप्रकारैः क्रीडाप्रकारैर्वेति पृथगभिसम्बन्धः ।
कूटलेखक्रिया लोकप्रतीतेति अत्यन्तप्रसिद्धा सुज्ञाना । मुद्राक्षरादिविन्यासः कूटलेखतुल्य इति,
न्यासापहार इत्यादि गोपायनाय स्वद्रव्यार्पणमन्यस्य स न्यासः तस्यापहारः-अपलापः सुश्लिष्टवचनेन, तथा विस्मरणकृतपरनिक्षेपग्रहणं, विस्मरणेन कृतं (? कृतस्य) परनिक्षेपस्य ग्रहणं, येन निक्षिप्तानि पञ्च शतानि, तस्य पञ्चशतसङ्ख्या विस्मृता, स चाधुना निक्षेपकमार्गणकाले