________________
૨૦૪
श्री तत्वाषिरामसूत्र अध्याय-9
સૂત્ર-૨૧
कूटलेखक्रिया लोकप्रतीता। न्यासापहारो विस्मरणकृतपरनिक्षेपग्रहणम् । साकारमन्त्रभेदः पैशुन्यं गुह्यमन्त्रभेदश्च ॥७-२१॥
ભાષ્યાર્થ– આ પાંચ મિથ્થોપદેશ વગેરે સત્ય વચનના અતિચારો છે. તેમાં પ્રમત્તવચન, અયથાર્થવચનોપદેશ, વિવાદોમાં છેતરવાનો ઉપદેશ વગેરે મિથ્યાઉપદેશ છે.
સ્ત્રી-પુરુષને પરસ્પર અથવા અન્યને હાસ્યક્રીડાથી અને આસક્તિ આદિથી એકાંતમાં રાગસંયુક્ત કહેવું છે રહસ્યાભ્યાખ્યાન.
કૂટલેખક્રિયા લોકમાં પ્રતીત છે. ન્યાસાપહાર એટલે વિસ્મરણથી કરેલી પરથાપણને લેવી. સાકારમંત્રભેદ એટલે પશુન્ય અને ગુહ્યમંત્રमेह. (७-२१) ___टीका- मिथ्योपदेशोऽसदुपदेशः, रह:-एकान्तं तत्र भवं रहस्यं, रहस्ये-एकान्ते अभ्याख्यानम्-अभिशंसनमसदभ्यारोपणं रहस्याभ्याख्यानं, कूटम्-असद्भूतं लिख्यत इति लेखः,करणं क्रिया, कूटलेखस्य क्रिया कूटलेखक्रिया, न्यस्यते-निक्षिप्यत इति न्यासः-रूपकाद्यर्पणं तस्यापहारःअपलापः, यो यत्र द्रव्यापहारः परस्वस्वीकरणलक्षणः स न विवक्षितः, तस्यादत्तादानविषयत्वात्, यत् तत्र वचनं अपलापकं येन करणभूतेन न्यासोऽपनूयते-अपलप्यते तद्वचनं न्यासापहारः, आकारोऽङ्गलिहस्तभ्रूनेत्रक्रियाशिरःकम्पादिरनेकरूपः परशरीरवर्ती तेन तादृशाकारेण सहाविनाभूतो यो मन्त्रो-गुप्तो गूढः पराभिप्रायःस्वयमुपलभ्य सहाकारं मन्त्रमसूययाऽऽविष्करोति एष साकारमन्त्रभेदः, भेदः-प्रकाशनं, मिथ्योपदेशादयः कृतद्वन्द्वाः पञ्चातिचाराः स्थूलानृतविरतेरिति ।
सम्प्रति भाष्यमनुश्रियते-'एत' इति सूत्रोक्ताः पञ्चेति पञ्चैव मिथ्योपदेशादयः, स्थूलमृषापरित्यागे न असत्यं वक्तव्यमिति, ततः सत्यवचनस्यातिचारा भवन्ति, तत्र मिथ्येत्यादि, तत्र तेषु पञ्चस्वतिचारेषु मिथ्योपदेशस्तावत्, नामशब्दः क्रमावद्योतनः प्रमत्तस्य वचनं पर